________________
[३८-५१
लीलावतीसारे अथान्येद्युस्तलवरस्तस्य श्रेष्ठिन आपणे । महास्थालकृते रूप्यखोट्टिकाद्वयमग्रहीत् ॥३८ धनापणात् स निर्गच्छन् मोहिलेन धनद्विषा । किमग्रहीरिति पृष्टस्तस्य रूप्यमदीदृशत् ॥३९ मायया तेन चाघ्रायोचे रूप्य त्रपुगर्भितम् ।। स्वर्णकृभिस्तलवरश्छेदयित्वा तथैक्षत ॥४० तेन तदर्शितं राज्ञो राज्ञोक्तं त्वं स्थिरीभव । भूपेनान्येधुराकार्य धनः श्रेष्ठी न्यगद्यत ॥४१ दशभारान् रजतस्य समानय स आनयत् । तन्मार्गितं रूप्यमूल्यं नृपः कोशाददापयत् ॥४२ स्वर्णकारैर्धनाने राट् छेदयामास खोट्टिकाः ।। त्रपुणा गर्भिता वीक्ष्य राजा श्रेष्ठिनमभ्यधात् ॥४३ रे किराटक खादित्वा पुरीं सर्व न तृप्तवान् ।। चिखादिषसि येनैवं मत्कोशमपि निर्भयः ॥४४ ततस्तदैव सोऽक्षेपि कारायां तद्गृहाट्टयोः । राज्ञा मुद्रा दाप्य ते स्म स्थापिताः पुंश्चतुष्किकाः ॥४५ भीतभीतास्ततः पौराः परचक्रागमादिव । पूर्मन्त्रिणा धनान्यायवार्तया बहु धीरिताः ॥४६ यतो धी नरेन्द्राणां यदुष्टानां विधीयते । निग्रहोऽत्युप्रदण्डेन शिष्टानां परिपालना ॥४७ यदि दण्ड नृपो नैव कुर्यादन्यायकारिणाम् । तदा चौर्यादितो दुष्टा निवर्तेरन् कथं ननु ॥४८ ये तु न्यायपथाध्वन्याः पराञ्चश्चानयाध्वनः । तेषां पितेव मातेव नयसारो महीपतिः ॥४९ इत्यादिधीरिताः पौराः पित्रव पुरमन्त्रिणा । यथास्पदं ययुः सर्वे सायं पक्षिगणा इव ॥५० द्वितीयेऽह्नि समाहूता राज्ञा पुरमहत्तराः ।।
भो भो एवं धनान्यायो ब्रूत तत् किं विधीयताम् ॥५१ ४९.१. पथां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org