________________
लीलावतीसारे
[२५०-२६३ ततो राजा जहर्षोच्चैरनृत्यद्धारिणीमनः । सामन्तामात्यपौराश्च सर्वे मुमुदिरेतराम् ॥२५० जयश्रियं च रोमाञ्चकुड्मलितवपुलताम् । वरस्रजं दृकस्रजं च तत्कण्ठे क्षेप्तुमुद्यताम् ॥२५१ वत्सराजोऽभ्यधात् सौम्ये पश्य राधाव्यधोत्सवम् । ततो यथोचितं कुर्या वरणस्रग्महोत्सवम् ॥२५२॥ युग्मम् ततस्तैलमहापात्रमुपस्तम्भं निवेश्य सः । स्वशरीरोद्तमिव बद्ध्वा परिकरं दृढम् ॥२५३ अनिवेश्य महीपीठेऽधिज्यीकृत्य शरासनम् । सन्धाय सायकं तच्च वलयीकृत्य लीलया ॥२५४ दृढां वामां धनुर्मुष्टि मौलौ संस्थाप्य मौलिवत् । हृदि कौस्तुभवन्न्यस्य गुणमुष्टि तु दक्षिणाम् ॥२५५ सव्यापसव्यपर्यञ्चच्चक्रचक्रविमध्यतः । राधावामदृशं द्रष्टुं तैलपात्रानुबिम्बिताम् ॥२५६ चित्रालेखितवल्लेपकृतवद् प्रावक्लप्तवत् । ऊर्ध्वमुष्टिरधोदृष्टिः स्थानेनास्थान्नरेन्द्रसूः ॥२५७॥ पञ्चभिः कुलकम् तं द्रष्टुं सिंहासनस्थाः पादारस्थितयोऽभवन् । उपविष्टाऊळभूवन्नूर्वा नम्राग्रकायकाः ॥२५८ तत्र तत्रोद्भुव इव चक्षुषैकेन्द्रिया इव ।। एकात्मान इवैकाग्यात् तदा सभ्या विरेजिरे ॥२५९ आत्मानं मनसा तच्च दृशा लक्ष्येण तामपि । निश्चलीकृत्य योगीव चिरं तस्थौ स राजसूः ॥२६० लक्ष्यात्मानं निरीक्ष्याथ राधां मिथ्योपलब्धिवत् । शरेण साक्षात्कारेण विव्याध स नरेन्द्रसूः ॥२६१ जयश्रिया कटाक्षस्रगद्विरुक्तवरणस्रजा । श्रीवत्सराजो वक्रेऽथ जज्ञे जयजयध्वनिः ॥२६२ निःस्वानेष्ववलन् घाता नान्दीतूर्यमपूर्यत ।
हर्षसांराविणं चक्रुः सर्वतोऽपि सभासदः ॥२६३ २५९.१. उद् भुव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org