________________
२६४-२७६]
तृतीय उत्साहः स्वलाघवात् परोत्कर्षात् सहजाच्चाभिमानतः । कृत्याकृत्यविवेकान्धस्तदा सोऽभूत् कुलक्षणः ॥२६४ ततो लघोः सोदरस्य विनीतस्य कलाम्बुधेः । तेनामोचि क्षुरीघातो वत्सराजस्य मर्मणि ॥२६५ पुनश्छुरीघातमेषोऽमुचद् यं तज्जिघांसया । जयश्रियाऽन्तः पतन्त्या स सेहे दुःसहोऽपि हि ॥२६६ मा मा हा पाप पापेति वारिणौ पितरावपि । स क्षुर्या यमकिंकर्या निजघानातिनिघृणः ॥२६७ चत्वारोऽपि विपेदुस्ते ततः सामन्तमन्त्रिणः । तदौदेहिकं चक्रुर्बाष्पाविलविलोचनाः ॥२६८ ततः स्वयंवरध्वंसे कुलध्वंसे च निर्मिते । अधितस्थौ स्वयं राज्यं स राजकुलपांसनः ॥२६९ ततः सामन्तदायादैर्मन्त्रिमन्त्रवशंवदैः । युद्ध्वा निर्धाटितोऽसौ तद्राज्यं स्वयमधिष्ठितम् ॥२७० राज्यभ्रष्टः क्लिष्टकर्मा विदेशेषु भ्रमं भ्रमम् । जनमात्रमिहायातो राजन् सोऽयं सुलक्षणः ॥२७१ अथो विजयसेनेन राजा व्यज्ञापि सद्गुरुः । मृषावादक्षणे प्राणातिपातः किमु दर्श्यते ॥२७२ जगौ गुरुरहिसैव व्रतमेकं जिनोदितम् । तस्यैव रक्षार्थमन्ये माकन्दस्य यथा वृतिः ॥२७३ मृषावादेऽदत्तादाने मैथुनेऽथ परिग्रहे । पारम्पर्यात् प्राणिहिंसा सर्वत्रैव हि वर्तते ॥२७४ भगवन्नैवमेवैतदित्याह स महीपतिः ।
सुलक्षणस्तु स्वोदन्तश्रवणाल्लज्जितस्ततः ॥२७५ स इति गुरुगिरं निशम्य सम्यग विघटितघोरतमाघसञ्चयोऽभूत् । अविरलगरलं जहाति किं नो सपदि हि वजुलसङ्गमाद् भुजङ्गः ॥२७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org