SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ २३९-२४९] तृतीय उत्साहः अथ भूपोऽभ्यधाद् वत्स सुलक्षण कलाद्भुतैः । जित्वा जयश्रियमिमां वृणु द्वेधा जयश्रियम् ॥२३९ ततो भू भुजि धारिण्यां निःशेषेऽन्तः पुरे परे । मन्त्रिसामन्तपौरेषु सावधानेषु सभ्यवत् ॥२४० वीणावादनगीतगानविविधालेख्येषु पत्रच्छिदि च्छन्दोव्याकरणेतिहासगणितालङ्कारनाट्यादिषु । आदावेव जयश्रिया बत पराजिग्ये स निर्लक्षणः साधीयस्तदिदं यतो गुरुजनप्रद्वेषिणां क्वोदयः ॥२४१॥ युग्मम् मषीमुखी देव्यथाभून्न त्रेपे निस्त्रपः स तु । राजा पुनः स्माह विद्ध्वा राधां वृणु जयश्रियम् ॥२४२ अथाज्ञान्यप्यभिमानाद् वैयात्याद् विज्ञमान्यसौ । चापेषु ग्रहमन्दोऽपि राधावेधार्थमुत्थितः ॥२४३ स चापे संदधे बाणं प्राणं कृत्वोदचण्डयत् । स गत्वा दूरमाकाशे पतन् कन्यासखीमहन् ॥२४४ सहस्ततालं जहसे पर्षदा स कुलक्षणः । जातु दैवादभिज्ञोऽपि स्खलतीत्युन्मदी स तु ॥२४५ धारिणी व्यमनायिष्ट तुतोषान्तर्महीपतिः । देव्योऽन्या मन्त्रिसामन्ताः पौराश्च जहृषुस्तराम् ॥२४६ अथ राजाऽवदद् वत्स वत्सराज जयश्रियम् । कलालीलाभिरावय॑ वृणु राज्यश्रिया समम् ॥२४७ ततो भू भुजि धारिण्यां निःशेषेऽन्तःपुरे परे । .. मन्त्रिसामन्तपौरेषु सावधानेषु सभ्यवत् ॥२४८ वीणावादनगीतगानविविधालेख्येषु पत्रच्छिदि __छन्दोव्याकरणेतिहासगणितालङ्कारनाट्यादिषु । आदावेव जयश्रियं सुखसुखाच्छ्रीवत्सराजोऽजयत् साधीयस्तदिदं यतो गुरुजनानाराध्यतां क्वाजयः ॥२४९॥ युग्मम् २४८.१. निशेषे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy