________________
लीलावतीसारे
[२२६-२३८ चेदभ्यमित्र्या मे तात स्युस्ते हरिहरादयः । तथाऽपि विश्वं त्वत्की. भूष्यतेऽस्यां तु का कथा ॥२२६ न साधितं मया यत् तु वत्सराजोऽत्र को ननु ! कुमारकाणामन्येषां वार्ताऽप्यतिदुनोति माम् ॥२२७ धारिण्यथावदद् वत्स ! त्वज्जिह्वया बलिः क्रिये । जानाम्यहं तव शक्ति न जानाति परं पिता ॥२२८ अथ वा - चूतमञ्जरीप्रियंगुहंसीरत्नावलीप्रियः तत्पुत्राणामसाविच्छत्येतां नूनं वराङ्गनाम् ॥२२९ ततः स्मित्वाऽऽह राट् सत्यं चेत् त्वदुक्तं तदा प्रिये । किं नाहूतास्ताः किमेषादौ शिष्टा तव पुत्रयोः ॥२३० जाने कलावांस्ते पुत्रः परिणेप्यति किं पुनः । वाचाऽप्यन्ये निषिध्यन्तां किञ्च सर्वेऽपि नः प्रियाः ॥२३१ किन्तु क्रमातिकमश्चेत् कुप्येः सुन्दरि ! माऽन्यथा । अथोचेऽमात्यैः कन्यैव कुमारकषपट्टिका ॥२३२ ततो मौहूर्तिकादिष्टे मुहूर्ते गुरुमण्डपम् । अदृष्टपूर्वमाश्चर्य सर्वेषामपि भूस्पृशाम् ॥२३३ महीपतिर्यशः केतुः केतुदन्तुरिताम्बरम् । शिल्पिभिः कल्पयामास विमानमिव नाकिनाम् ॥२३४॥ युग्मम् तदन्तः स्तम्भमुन्नम्रमिन्द्रस्तम्भविजित्वरम् । उत्तम्भयामासुरेते मानदण्डमिवाम्बरे ॥२३५ प्रादक्षिण्येन चत्वारि चत्वारि पुनरन्यथा । भ्रमन्ति चक्राणि चक्रुस्ते तन्मूर्नीन्द्रजालिवत् ॥२३६ राधाऽभिधा च पाञ्चाली तैश्चक्रे चक्रमूर्धनि । राधावेधकलालोकाशयेवाधोमुखी स्थिरा ॥२३७ ततः शुभेऽह्नि कुमारराज्ञीमन्न्यादियुग नृपः । जयश्रीरपि सपरीवारोपैत् तत्र मण्डपे ॥२३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org