SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ २१२-२२५ ] तृतीय उत्साहः इति व्याजेन कस्यापि राज्ञः पुत्र्याः स्वयंवरे । वत्सराजस्तया राज्यश्रिया च परिणेष्यते ॥२१२॥ युग्मम् सुलक्षणः स्वयमेवमप्रमाणीभविष्यति । इति राज्यस्य सर्वस्य श्रेयः स्वामिन् स्फुरिष्यति ॥२१३ इत्येवं मन्त्र्यमाणे चागत्य दौवारिकोऽभ्यधात् । देव श्रीमथुरेशस्य मन्त्री देवं दिक्षते ॥२१४ राजाज्ञया प्रविष्टोऽसौ यशःकेतुं महीपतिम् ।। नत्वाऽभ्यधादेव जितशत्रोः पुव्यस्ति विश्रुता ॥२१५ यां निर्माय कृतकृत्यमन्यो मन्ये स पद्मभूः । अन्याः कन्याः कारयते किंकरैस्तेन नेदृशः ॥२१६ यत् सौभाग्यं समीक्ष्येव पत्यविश्वासवासिते । गौरीश्रियौ ते मुञ्चेते न तदर्धाङ्गवक्षसी ॥२१७ कमलावत्यनजाता सा जयश्रीः स्वयंवरे । भवत्पुत्रं कलाजैत्रमस्त्युद्वोढुमुपस्थिता ॥२१८॥ त्रिभिविशेषकम् सहर्ष मन्त्रिणा तेन सह सर्वसहेश्वरः । अभियानगौरवेण कन्यां तां पुर्यवीविशत् ॥२१९ आवासस्नानभोज्यस्रक्ताम्बूलवसनादिभिः । सच्चक्रे भू भुजा तेन जयश्रीः सपरिच्छदा ॥२२० आस्थानमण्डपे राजाऽऽह्वयत् सामन्तमन्त्रिणः । धारिणीं सह पुत्राभ्यां कुमारानपरानपि ॥२२१ ऊचे च भो भोः सामन्तामात्याः शृणुत सादरम् । भोः सुलक्षण वत्स त्वं सावधानो निशामय ॥२२२ एतां जयश्रियं गीतपत्रच्छेद्यादिकौशलैः । जित्वा विद्ध्वाऽथवा राधां वृणु राज्यश्रिया समम् ॥२२३ त्वां व्यतीतां वत्सराजस्तमप्यन्ये कुमारकाः । प्रतिज्ञायत इत्यस्याः पक्षोऽपक्षो न कोऽपि नः ॥२२४ ततोऽभिमानमातङ्गस्कन्धारूढः सुलक्षणः । जगाद पितरं मातः कोऽन्यो भुवि मयि स्थिते ॥२२५ Lila.-9 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy