________________
१८७-१९८]
तृतीय उत्साहः तस्यां पुण्यश्रियो वाप्यां. लावण्यामृतसद्मनि । अभूद्यशोमतीजीवः पुण्डरीकमिवाङ्गजः ॥१८७ काले सुलक्षण इति तस्य नाम न्यधीयत । धात्रीभिः पञ्चभिस्तस्य धात्रीकर्म व्यधीयत ॥१८८ शैशवातिक्रमे तस्य कलाग्रहणकार्मणम् । लेखशालाकरणं चोपोपाध्यायमजायत ॥१८९ अत्रान्तरे मृषाभाषाजानिः प्राग्जन्ममानितः । मानः सुलक्षणस्यास्य सदा सहचरोऽभवत् ॥१९० ततो हसत्युपाध्यायं विप्लावयति तत्प्रियाम् । भीषयते स तत्पुत्रं क्लिश्नाति सहपाठिनः ॥१९१ अनधीतं वक्त्यधीतं लिखितां माष्टि पट्टिकाम् । कर्णाखेटान् ममायाति तत् किमारटितेन भोः ॥१९२ दूरे स्थित्वा गुणयति लुप्तवर्ण मृदुध्वनि ।।
उच्छंखलः खल इव ततो याति यतस्ततः ॥१९३ तथा हि - सिद्धो वर्णसमाम्नायः । टे ठे वाष । ड ढ ण परस्तु णकारं । द्विवचनमनौ । एकारे ऐ एकारे च । लोकोपचाराद् ग्रहणसिद्धिः । इति सन्धौ सूत्रतः प्रथमोऽध्यायः समाप्तः ॥ निश्चित्य तमुपाध्यायो दुविनीत कुशिक्षितम् । उपैक्षिष्ट ततः सोऽभून्निष्कलः स्वर्णकारवत् ॥१९४ धनुर्वेदं नाट्यवेदमायुर्वेदं ततश्च सः । गन्धर्ववेदं सामुद्रं राधावेधं च नाबुधत् ॥१९५ तथाप्युपहसत्यन्यान् कलाविज्ञान् कुमारकान् । जुगुप्सतेऽप्युपाध्यायं तद्गुणांश्च निगृहति ॥१९६ उपाध्यायः कुमारश्चान्यदाऽऽहूता महीभुजा । पप्रच्छे च कलाचार्यः कुमारैः स्वीकृताः कलाः ॥१९७ उपाध्यायोऽवददेव स्वयमेव निरूप्यताम् । सुलक्षणः क्षणं प्राप्य सासूयं भू भुजेऽभ्यधात् ॥१९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org