________________
लीलावतीसारे
[१७३-१८६ तापस्यूचे स्वात्महत्या युज्यते न विवेकिनाम् । इति कारुण्यतोऽच्छेदि मया ते कण्ठपाशकः ॥१७३ किञ्च जन्मजरामृस्युरोगशोकोमिसंकुलः । दुःखाब्धिरेष संसारः कदर्थयति देहिनः ॥१७४ ततस्तदुःखविच्छित्त्यै यतितव्यं विवेकिभिः । न च भद्रे प्राणमोक्षो दुःखक्षयनिबन्धनम् ॥१७५ यतो वपुर्न दुःखस्य मूलं किन्तु स्वदुष्कृतम् । तच्च जीवसहचरं नाङ्गे नष्टे निवर्तते ॥१७६ किं नाम ध्यानकारुण्यतपोभिस्तन्निवर्तते ।। एष एव पण्डितानां पर्यन्ताराधनाविधिः ॥१७७ यशोमतीति संबोध्य कमण्डलुजलादिना । मनाक् सुस्थीकृत्य निन्ये तापस्या तापसाश्रमम् ॥१७८ नमश्चक्रे यशोमत्या बृहती तत्र तापसी । तया निजजनन्येव धीरिता सा स्थिताऽऽश्रमे ॥१७९ अथ प्रसवसमये तस्या गर्भो विमूढवान् । कृच्छ्रात् कदर्थनाभिश्च मृतः पाप्मेव निर्ययौ ॥१८० तापसीभिरुपचर्यमाणा भग्नीजनाधिकम् । साध्व्यभ्याख्यानानुतापान्मनुष्यायुर्निबधनती ॥१८१ तेन सूतकरोगेण यमदूतानुकारिणा । पीडिता साऽमुचद् देहं तदवक्रयगेहवत् ॥१८२॥ युग्मम् इतश्चात्रैव भरतक्षेत्र कोशलमण्डले । भोगावत्यग्रजातेव श्रियाऽभूत् कोशलापुरी ॥१८३ तां च मूलात् तीर्थभूतां श्रीयुगादिजिनक्रमैः । अलञ्चक्रे यशः केतुः क्षमापतिः श्वेतकेतुवत् ॥१८४ यस्य श्रीकीर्तिकौमुद्या विलसन्त्या दिवाऽनिशम् । आनन्दमेदुरं भेजे नित्यां. कुवलयं श्रियम् ॥१८५ अनेकविषयग्रामरामणीयकधारिणी
। धारिणी धरणीवास्य लेभेऽग्रमहिषीश्रियम् ॥१८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org