SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १५९-१७२] तृतीय उत्साहः ततः सा गीते लोकैर्हस्यते च परिच्छदैः । हील्यते भ्रातृजायाभिर्निन्द्यतेऽपि सखीजनैः ॥१५९ निर्भय॑ते भ्रातृभिश्चाक्रोश्यते पितृभी रहः । किं बहूक्तैः प्रतिकूलं तस्या जज्ञे जगत् तदा ॥१६०॥ युग्मम् ततो दुःखभराक्रान्ता प्रदोषे निर्गता गृहात् । मार्गामार्गावजानाना गृहीत्वैकां दिशं क्रमात् ॥१६१ वाध्रीणसवृकव्याघ्रद्विपद्वीपिमृगाधिप- । तरुक्षुक्षभुजगभीमां साऽगान्महाटवीम् ॥१६२॥ युग्मम् तत्रैकिका निःशरणा त्राणं किञ्चिदविन्दती । पितरं मातरं भ्रातृन् स्मारं स्मारं मुहुर्मुहुः ॥१६३ तथा विलापांश्चक्रेऽसौ यथा तद्दुःखदुःखिता । तत्प्रतिध्वनितैर्मन्ये सा व्यलापीदटव्यपि ॥१६४॥ युग्मम् ततो महाशोकशल्यशल्यिता मर्तुमुद्यता । सा पर्यश्रु मुखी तारं सगद्गदमदोऽवदत् ॥१६५ भो भोः पूज्या वनदेव्यो लोकपाला हरादयः । शण्वन्त्वतीन्द्रियज्ञाना नेहकर्म कृतं मया ॥१६६ महासतीनां साध्वीनामभ्याख्यानेन केवलम् । अभिमानमृषाग्रस्ता दुर्दशां प्रापमीदृशीम् ॥१६७ तच्छोधयत मां सद्यः प्रसन्नेक्षितवीचिभिः । एषा वराकी रङ्कीव प्रत्यक्षं वो म्रियेऽधुना ॥१६८॥ त्रिभिविशेषकम् इत्युक्त्वाऽशोकशाखायां बद्ध्वा संव्यानपल्लवम् । दत्वा स्वकण्ठे पाशं च मुमोच स्वं यशोमती ॥१६९ अत्रान्तरे साहसं मामेत्येवं भाषमाणया । निकुञ्जादेत्य तापस्योत्तरीयं पाटितं क्षणात् ॥१७० यशोमती ततो मूर्छामीलिताक्ष्यपतद्भुवि । कमण्डलुजलाद्यैश्च तया सा प्रापि चेतनाम् ॥१७१ समुन्मील्य दृशौ साऽथाभिदधे वीक्ष्य तापसीम् । भगवत्यादधाः किं मे विघ्नं दुःखाब्धिलङ्घने ॥१७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy