________________
लीलावतीसारे
[१४५-१५८ साप्याचामत् तत्र ते च बिन्दवस्तद्भगेऽविशत् । साप्यानन्दाच्चमच्चक्रे निश्चिकाय न किञ्चन ॥१४५ कियत्स्वपि दिनेष्वेषा व्यतीतेषु व्यचिन्तयत् । जठरं जरठीभूतं तत् किमेतज्जलोदरम् ॥१४६ नैवं किञ्चित् स्फुरत्यन्तस्ततो गर्भस्य शातनम् । पातनं च चकारैषा नापतद् वज्रलेपवत् ॥१४७ अथ गर्भस्य लसुनस्येव चिह्नानि सर्वतः । अपहोतुमशक्यानि तस्या हन्तोज्जजम्भिरे ॥१४८ मात्रा राधिकया सैषाऽप्रच्छि वत्से ! किमीदृशम् ।। साऽऽख्यन् मात व तावद् दुष्कर्मेदं ममैहिकम् ॥१४९ पारत्रिकं तु यत् किञ्चिद् दुष्कर्मैवं फलेग्रहि । तदंब नैव जानामि मन्दभाग्या करोमि किम् ॥१५० माताऽवोचत वत्से दुप्कमैहभविकं विना । न पारभविकेनैव केवलेन भवत्यदः ॥१५१ तन्मूढे हा त्वयाऽत्युच्चैः पातितं स्वकुलद्वयम् ।। मलीमसरसावेशात् तटिन्येव तटद्वयम् ॥१५२ तयाऽथ भणिता माता चेज्जलोदरदम्भतः । दाप्यन्ते परितो दम्भास्तदा गर्भो गलत्ययम् ॥१५३ अहं तु गलिते गर्भे म्रिये जीवामि वा शुभम् । तन्मातः कारयेदं मे त्वत्तो नान्या गतिर्मम ॥१५४ प्रतिश्रुतं तया सर्व स्वभर्तुश्च निवेदितम् । देवरक्षितवैद्यस्य सोऽपि पुत्रीमदर्शयत् ॥१५५ भट्टायोचे रहो वैद्यो गर्भोऽयं न जलोदरम् । भट्टः खिन्नोऽञ्जलिं बद्ध्वा तमूचेऽन्यस्य मा भणीः ॥१५६ भट्टिन्याश्च तदेकान्ते तेनोक्तं साऽप्यमन्यत । तत् किं कार्यमिति छन्नं मन्त्रयेते इमौ मिथः ॥१५७ मन्त्रछन्नस्तयोरासीन्न तस्या उदरं पुनः । लोकेऽथ सा कुशीलेति स्फुटितं पक्कगण्डवत् ॥१५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org