________________
१३१-१४४]
तृतीय उत्साहः अथ सा यौवनभरे मन्मथोन्मथ्यमानहृत् । स्वयं स्वाङ्गे कुचेष्टास्ताश्चक्रे या वेत्ति सैव हि ॥१३१ अन्येयुः शीलशालिन्यो महासत्यस्तपोधनाः । भवाब्धिनिस्तारतर्यः साध्व्यस्तत्र समाययुः ॥१३२ अत्रान्तरे पुराभ्यासाज्जातिस्वाभाव्यतस्तथा । अभिमानमृषाभाषे भृशं तस्यां विलेसतुः ॥१३३ तत उद्दिश्य ताः साध्वीः सा पापाऽऽख्यत् सखीः प्रति ।। शीलमासां कुतोऽनिष्टभुजां . ग्रामपुरान्तरे ॥१३४ कन्दमूलफलाहारा वनवासैकतत्पराः । खण्डयन्ति यदा शीलं तदासां का कथा ननु ॥१३५ आख्यन् सख्यस्तदेतासां कुक्षिविक्रियते न किम् ।। सोचेऽनेके सन्त्युपाया गर्भशातनपातनाः ॥१३६ नूनमेषा कुशीलेति स्वहृदा मेनिरेऽथ ताः । अन्यथैतत् कथंकारं बालरण्डाऽवबुध्यते ॥१३७ श्रीमत्सुव्रतसूरीन्द्राभ्याख्यानाऽशुभकर्मणि । अक्षीणेऽपि हि सा कर्मान्तरमेवमुपार्जयत् ॥१३८ दध्यौ शासनदेवी च पापैषा वक्तु निर्भयम् । अचिरादेतदेतस्या मस्तके पातयिष्यते ॥१३९ अन्यदा ग्रामकूटस्य मायाराजाभिधः सुतः । क्षेत्रात् ग्रामसरस्यागात् पयःपानादिहेतवे ॥१४० तदा च रामदेवस्य ग्रामेशो घटदासिका । तत्रागाद् विजनं ज्ञात्वा तेन साऽप्रार्थ्यमस्त च ॥१४१ सरःपाल्या देवकुले तया रत्वा सरस्यसौ । आचचाम तस्य रेतोबिन्दवः सलिलेऽपतन् ॥१४२ गतौ च तौ यथास्थानमथ दुर्दैववैभवात् । देवताप्रतिकूल्याच्च ब्राह्मणी सा यशोमती ॥१४३ ऋतुस्नाता भ्रम्यमाणा समैत् तत्र सरोदिशि ।
यत्राध्वस्ता बिन्दवस्ते तरन्ति सलिलोपरि ॥१४४॥ युग्मम् १४४.२. संमैत्तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org