SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [११७-१३० सोऽथाभूदाद्यनरके नारकोऽम्भोधिजीवितः । तत्रासातवेदनयाऽक्षिपद् दुष्कर्म पुष्कलम् ॥११७ ततः कथञ्चिन्निर्गत्य स वसुन्धरजीवकः । तत्तादृक्षकर्मशेषजंबालमलकश्मल: ॥११८ पापठ्यमानमगधागाधे मगधमण्डले । दुर्वारपामराकीर्णे ग्रामे गोर्वरनामनि ॥११९ षट्कर्मकर्मठस्य श्रीविद्यानां पारदृश्वनः । निष्ठिताशेषयज्ञस्य यज्ञदत्तद्विजन्मनः ॥१२० राधासमभिधानायाः पत्न्या उदरकन्दरे । केशववामनगदाभन्माधवसुतोपरि ॥१२१ यशोमतीनामधेयपुत्रीत्वेनोदपद्यत साऽवर्धत क्रमात् सार्ध पितृभ्रातृमनोरथैः ॥१२२॥ पञ्चभिः कुलकम् बालिकैवातिवाल्लभ्यात् तैर्महेन महीयसा । सा वामदेवतुक्सोमदेवेन परिणायिता ॥१२३ विवाहानन्तराहे च शूलातङ्केन भूयसा । सोमदेवः सोम इव निशाशेषेऽस्तमासदत् ॥१२४ ततः पितृभ्रातृमुखैरथुप्लावितदृग्मुखैः । चिरं प्ररुद्य रुदती सा कथञ्चन धीरिता ॥१२५ कुल्येन धनिना यूना वरेण सुभगेन च । पुत्र्युद्वाह्या पितृभ्यां तत् सर्व वत्सेऽधिकं कृतम् ॥१२६ परं तदैव देवेन सहसा शतखण्डितम् । देवं च सुव्रताचार्याभ्याख्यान बुध्यतां बुधाः ॥१२७ पुत्रि तदैवशान्त्यर्थं शीलं शीलय देहि च । तपस्य वश्यय स्वं चेत्युक्ते तैः सा तथाऽकरोत् ॥१२८ ततः प्रीत्या पितृभ्रातृभ्रातृजाया यशोमतीम् । सर्वेऽपि प्रीणयामासुः कुलदेवीमिवान्वहम् ॥१२९ सा च शीलाभिमानेन न्यक्करोति प्रजावतीः । श्वश्रूपतिभयात् त्वेता न तां प्रति वदन्त्यपि ॥१३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy