SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ २७ १०४-११६] तृतीय उत्साहः प्रगे पौरैस्तथा दृष्टो विगुप्तोऽसौ पुरेऽखिले । तिरोऽभूदेवता साऽथ स च दध्याविदं कुधीः ॥१०४ श्वेताम्बरैरिति कृतं कृते प्रतिकृति न चेत् । कर्ताऽस्मि तन्नास्मि पुमान्निष्फलं जीवितं च मे ॥१०५ साध्वालयं ततो दग्धुमग्निच्छगणिकाकरः । अर्धरात्रे प्राप पापः शय्यां नेत्रा च लक्षितः ॥१०६ बद्ध्वाऽऽरक्षैः स राज्ञोऽग्रे दर्शितो देव यः पुरा । साधूनुपाद्रवत् सूरीनभ्याचख्यौ. शुनीमगात् ॥१०७ साध्वालयं दहन् सोऽथ लब्धः पाषण्डपांसनः । क्रियतामस्य किं स्वामिन् भू भुजोक्तं निगृह्यताम् ॥१०८॥ युग्मम् ततो मष्या विलिप्ताङ्गः स्वापकीयॆव मूर्तया । सूर्पखण्डच्छत्रकेण मिथ्यात्वेनेव संवृतः ॥१०९ करवीरस्रजा बिल्वमालया धातुपुण्डकैः । रथ्याचीरैश्च कुगतेः कटाक्षेवि भूषितः ॥११० अकी मलिनात्मैष इत्यकर्णे मलीमसे । रासभेऽशुभतत्कर्मराशिभे चाधिरोपितः ॥१११ अनेनेदं कृतं पापमिति पापो विगोप्यते । । इत्युच्चैर्धेपणापूर्व पुरोवादितडिण्डिमः ॥११२ तपस्विनोऽमुप्य महापापमत्रैव पवित्रमम् । बभूवेति सानुकम्पं दृष्टः शिष्टतमैर्मुहुः ॥११३ दुरात्मनोऽस्य पापस्य पापं स्याद्दर्शनेऽपि हि । इति पौरैनिन्द्यमानो भ्रमयित्वाऽखिले पुरे ॥११४ प्रदोषः सैष पाखण्डी प्रदोषे राजपूरुषैः । निन्ये उभशानमास्थानं दक्षिणाधिपतेरिव ॥११५॥ सप्तभिः कुलकम् आरक्षकेभ्य आक्रोशन् विलपन्नभिमानवान् । शूलायां मृत्युतूलायां स्थापितश्चैष पातकी ॥११६ Lila.-8 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy