________________
लीलावतीसारेअथान्यदा सङ्घयुतान् यातश्चैत्ये गुरूनमुन् । चरिकका पुरोभूय स्पष्टं धृष्टमदोऽवदत् ॥९० धर्मप्रपाः सत्यमेव : विधिना विहिता वयम् । अष्टाङ्गानि परं यासां भुज्यन्तेऽन्यं त एव ताः (?) ॥९१ यूयं तु कम्रा मुधेति तद्वाचा रक्षकैर्धताः । गुरवः सा च पापिष्ठा नीताः सर्वे नृपान्तिके ॥९२ राज्ञा च नयसारेण सरयोऽभ्युत्थिता नताः ।। तत्समक्षं च तद्वार्ता र राजे न्यवेद्यत ॥९३ दान्तान् शान्तान् निर्विकारान् वीतरागाध्वजानिकान् । गुरून्. वीक्ष्यैव निर्दोषान् दिव्यचक्षुर्नूपोऽबुधत् ।।९४ पप्रच्छ च प्रभोऽयं वः कुतो व्यतिकरोऽनया । सू रिरुचे निनिमित्तः प्राग्भवे नः कृतोऽथवा ॥९५ . . अत्रान्तरे दिवि दैवी वागभूद् भो ! निशम्यताम् । वसुन्धरकपाखण्डिपाशस्येदं विजृम्भितम् ॥९६ सा परिवाजिका बद्धा कशाभिस्ताडिता ततः । वसुन्धरकपाखण्डिवृत्तान्तं मूलतोऽलपत् ॥९७ ततः श्रीनयसारेण भू भुजा दत्तहस्तिकाः । . श्रीमन्तः सुव्रताचार्या गाम्भीर्यादतिसागराः ॥९८ जयतादहतां तीर्थ देवताभिः प्रभावितम् । इत्युच्चैः परितः पठ्यमाने मङ्गलपाठकैः ॥९९ वर्धापने स्फार्घमाणे श्रीसङ्घन पदे पदे । सायं स्वोपाश्रयं जग्मुनिर्जग्मुः द्विषतां मुदः ॥१००॥ त्रिभिर्विशेषकम् निशि शासनदेव्याथ दिव्यस्त्रीरूपया स्यात् । वसुन्धरोऽक्षोभि लुब्धः प्रार्थको भणितस्तया ॥१०१ वश्या वयमुदीचीव धनदस्य परस्य न । धनं जनान् प्रगेऽभ्यर्थ्य दास्ये मन्यस्व तत् प्रिये ॥१०२ इत्युक्त्वा संप्रयुक्तः स सरमासूतया तया ।
श्ववत् तया कीलितश्च तथाऽस्थान्न व्ययुज्यत ॥१०३॥ युग्मम् १०३.२. सरमी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org