________________
७६-८९]
तृतीय उत्साह जिघत्सया तच्छवानां प्रविशनिर्बलात् श्वभिः । चक्रे छिद्रं कण्टिकाधो निरैतन वसुन्धरः ॥७६ स निस्त्राणो भ्रमन् रङ्कवृत्या कुक्षिभरिः पुरि । . पञ्चहायनतां भेजे दुर्भिक्षे पश्चतां पुनः ॥७७ ततः सुभिक्षे सजाते क्सन्तपुरतोऽवहन् । सार्थाः सार्थेन केनापि निर्ययौ स वसुन्धरः ॥७८ सार्थे भैक्षालाभतोऽभूत् पाखण्डी मुण्डमुण्डनात् । मौनी पवनरोधी च सोऽमात् क्षितिप्रतिष्ठिते ॥७९ जात्या कुलेन शीलेन तपसा ध्यानमुद्रया । मिथ्याभिमानी जज्ञेऽसौ गुणिनां गुणमत्सरी ॥८० मिथ्याभिमानकधनो मिथ्यावादवशंवदः ।। ताग मिथ्याजनैः सेव्यः स्वxकं मन्यतेऽसकौ ॥८१ निरालम्बा नभ इवाप्रतिबद्धाः समीरवत् । तेजस्विनो रविरिवानुपलेपाश्च पद्मवत् ॥८२ । चन्द्रवन्नयनानन्दा निष्प्रकम्पाश्च मेरुवत् । सागरवच्च गम्भीरा दुर्धर्षाः पञ्चवक्त्रवत् ॥८३ श्रीमन्तः सुव्रताचार्याः परिवार्याः सुसाधुभिः ।। क्षितिप्रतिष्ठितपुरमलञ्चक्रुरथान्यदा ॥८४॥ त्रिभिर्विशेषकम् तेषु तत्राभ्युदितेषु ज्ञानभास्वत्सु सूरिषु । स वसुन्धरपाखण्डी चूकक्द् व्यमनायत ॥८५ न कोऽपि याति तत्पाा पूर्लोको गुरुवन्दकः । सति सत्यक्रयाणेऽद्दे कृत्रिमे याति. कः सुधीः ॥८६. तच्छिद्रदृष्टिः फणिवन्न सोऽपश्यत् तदन्धवत् । उपाचरच्च चरिकाः साधुक्षोभणहेतवे ॥८७ ततोऽकाले समायान्त्यस्ता निषिद्धाः सुसाधुभिः । सायं द्वारान्निवृत्योचुर्वसत्यन्तर्वयं मताः ॥८८ तद् दुर्वाक्यानि पूर्लोकः सम्यग्दृष्टिर्न मन्यते । । स चाहेतुरिपुः पापः प्रेरयामास ता मुहुः ॥८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org