SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे धूनं धून शिरश्चित्राद्राज्ञा श्रीसचिवेश्वरः ।। ईश्वरत्वं परं निन्ये चन्द्रमौलिप्रदानतः ॥६४ तदैवज्ञ दैवमेवमुपायेनानुकूल्यते । सोऽवक् श्रेष्ठिस्तव गृहे श्रेयः शान्तिर्विजृम्भताम् ॥६५ द्वादशाहे व्यतिक्रान्ते कान्ते चन्द्रबले शिशोः । । वसुन्धर इलि नाम श्रेष्ठी श्रेष्ठमतिष्ठपत् ॥६६ कियत्यपि गते काले कालेनेव निरोपितः । किंराजेवातिदुष्कालः प्रासरत् तत्र नीवृति ॥६७ तथा हि - घना न ववृषस्तावद् वृष्टौ बीजानि नोदगुः । उद्गतानीतिभिर्जग्धान्यजग्धान्यफलन् न हि ॥६८ क्षुधार्तदुःखार्तजनं निर्जलान्नफलांशुकम् । नरकावासदेश्यं तद्वसन्तपुरमप्यभूत् ॥६९ अपि च - दातारोऽपि हि याचकत्वमगमन् द्रव्येश्वरा निःस्वतां ब्रह्मस्कन्दमुकुन्दशम्भुविमुखा धान्यं प्रदध्युर्जनाः । हा व्यक्रीणत सूर्पकोणकगतेनान्नेन सौवाङ्गजान् . रक्कैरककर ककरविरला जजुः खिलाः श्रीपथाः ॥७० रौवे भैरवेऽप्येवं सागरदत्तवेश्मनि ।। अक्षयं धनधान्यादि रस्नाद्यमिव सागरे ॥७१ तथाऽपि दुर्दैववशात् कुलेऽस्य सकलेऽपि हि ।। शीतलिका महाव्याधिरुदभून्न्यगभूदपि ॥७२ तेनैव व्याधिना मृत्युकिंकरेणेव तत् कुलम् । सर्व मृत्युपुरं निन्ये तं विनैकं वसुन्धरम् ॥७३ हा मातः पायय पयः पितर्वीजय मxकाः । इत्यादि विलपन् सैष बभ्राम स्वगृहोदरे ॥७४ तद्दोषदूषितस्यास्य गृहस्य द्वारि कण्टकाः । तद्दोष x x नभिया दीयन्ते स्म जनैर्घनाः ॥७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy