________________
५०-६३ ]
तृतीय उत्साहः
सर्वस्वं मे त्वद्दृष्ट्ये पक्षं रक्ष्यं स्वयामिकैः । तावत् स्वावास एवावस्थास्ये नैष्यामि वोऽन्तिके ॥५० इति राज्ञाङ्गीकृतेऽथ स्वौकोदाराणि बंधुभिः । नियन्त्र्य वेष्टयित्वा च प्रवीरैः स्वैकभक्तिभिः ॥५१ चैत्येष्वचीं विधाप्योच्चैः सकुटुम्बोऽतिजागरी । धर्मध्यानेन मन्त्रयस्थात् ततश्चाहि त्रयोदशे ॥५२ रासौधेऽभूत् कलकलोऽयं सुबुद्धिरमात्यस्ः । रत्नावल्या राजपुत्र्या वेणीं छित्वा स्वधाम्न्यगात् ॥ ५३ रुदती सा छिन्नवेणिर्गत्वा राज्ञेऽभ्यधात् पितः । प्रार्थिताहमनिच्छन्त्या छिन्ना वेणिर्ममामुना ॥५४ क्रुद्धोऽथ यमवद्राजा विज्ञप्तो भ्रष्टमन्त्रिणा । मोहिलेन चिरं स्वामी जीवन्त्यायुर्बलात् (?) परम् ॥५५ यच्चक्रे मन्यसौ पापस्तदहं वेद्मि मूलतः । अथ राज्ञा स एवोक्तः पापोऽसौ खाग निगृह्यताम् ॥५६ ततः ससैन्यः सोऽधावन् मन्त्रिसैन्यं च सज्जयभूत् । सुबन्धुनाऽथ सुहृदा मन्त्री भूपं व्यजिज्ञपत् ॥५७ प्राग्भत्तयैवैकवारं मे सुस्वामिन् ! देहि दर्शनम् । सर्वस्वं मे येन याति राट्रकोशे याति नान्तरा ॥५८ राज्ञा रणे निषिद्धेऽथ स्वपुंभिर्गर्भितो गतः । राज्ञः समक्षं मन्त्री तां मञ्जूषामुदघाटयत् ॥५९ ततस्तदन्तः प्रेक्षन्त कृपाणीवेणिपाणिकम् । राजा मन्त्री यामिकाश्च सुबुद्धि मन्त्रिनन्दनम् ॥ ६० मन्त्र्यूचे यामिकक्षूणं तेऽप्यूचुर्न मनागपि । राट् विस्मितः स्माह मन्त्रिन्निन्द्रजालमिदं किमु ॥६१ मन्त्र्यूचे देव ! दैवेन देवेन दानवेन वा । प्रतिकूलमिदं चक्रेऽनुकूलं तु प्रभोर्दृशः ॥६२ तत्त्वं ब्रूहीति राज्ञोक्ते यथावधीसखोऽभ्यधात् । धीरड्डनं घृतं देव धाम्नाऽस्ख लिहतिर्विधेः (१) ॥६३ ५०.४. नेष्यामि.
Jain Education International
For Private & Personal Use Only
५३
www.jainelibrary.org