________________
लीलावतीसारे ज्ञानिन् स्वज्ञानमादायोत्तिष्ठ तत्तिष्ठ मा क्षणम् । राज्ञेत्युक्तो निमित्तज्ञो विषण्णः सहसोत्थितः ॥३९ विषेदुर्मन्त्रिमित्राणि तदमित्राश्च पिप्रियुः । राजान्तःसौधमध्यास्त मन्त्री तु स्वगृहं ययौ ॥४० मन्त्रिणा गुप्तमाहूय पृष्टोऽरिष्टस्य कारणम् ।। नैमित्तिकोऽवदन् मन्त्रिन् सुबुद्धिस्तव नन्दनः ॥४१ सत्कृत्य नान्यस्य कथ्यमिदमित्युपरुध्य च । ज्ञानिनं व्यसृजन्मन्त्री तं च नन्दनमाह्वयत् ॥४२ पिता - वत्स ! नैमित्तिकेनोक्तस्त्वन्निमित्तः कुलक्षयः । तद् बूहि केन विधिना विधिः प्रतिविधीयताम् ॥४३ पुत्रः - त्यजेदेकं कुलस्यार्थ इति नीतेर्भवद्राि । नामशेषी भवाम्यस्तु कुलस्य परितः शिवम् ॥४४ पिता - वत्साधत्से मद्वचश्चेन्न कस्याप्यशिवं तदा । । तुर्यबुद्धया प्रतिबद्धो विधिष्टगमगेक्षताम् ॥४५ पुत्रः - त्वद्वचस्तात नाधास्ये कस्याधास्ये तदा ननु । मत्प्राणैरथ धीबाणैर्दुविधिं रुद्धि शाधि नः ॥४६ पिता - साधु साधूदितं वत्स वत्सल स्वकुलश्रियाम् ।।
तीर्णोऽयमशिवार्णवः ॥४७ ततश्च - कारयित्वोरुमञ्जूषां मरुतोप्यप्रवेशनाम् । । मन्त्री तत्रासयत् पुत्रं साधं जलफलादिभिः ॥४८ लोह पट्टेदृढं बद्ध्वा तालयित्वाष्टतालकैः । पुभिरुत्पाट्य राट्सौधे नीत्वा मन्त्री नृपं जगौ ॥४९॥ युग्मम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org