SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ २६-३८ ] Jain Education International तृतीय उत्साहः तत्र सौजन्य श्रेष्ठी सागरदत्तोऽभूद् भूषणं ३५.१. दैव. दाक्ष्यदाक्षिण्यसागरः । पूर्मृगीदृशः ॥ २५ विकस्वरसरोजन्ममनोज्ञकरपल्लवा 1 प्रियाऽभूत् कामजननी श्रीस्तस्य श्रीपतेरिव ॥ २६ तयोश्च तनयो जज्ञे मनोरथशतार्थितः । वर्धापनं महत् ॥२७ कामानुरूपरूप श्रीश्चके हूतस्तदैव दैवज्ञो ज्ञातपुत्रजनुः क्षणः । सम्प्रधार्य विषण्णात्मा धूनं धूनं शिरोऽभ्यधात् ॥ २८ नक्षत्रे गर्भमागतः । एष क्रूर ग्रहैर्दृष्टे जातस्तु भो कुजाश्लिष्टेऽर्कदग्धे राहुलत्तिते ॥२९ लग्ने तु शनिना सर्वदृष्ट्या दृष्टे ततोऽसकौ । आरतः पञ्चवर्ण्यास्ते कुलं निष्ठापयिष्यति ॥ ३० ॥ युग्मम् ततः श्रेष्ठयाकुलोऽवादीदस्ति दैवज्ञ किञ्चन । शान्तिकाद्यत्र येनेदमरिष्टं प्रतिहन्यते ॥ ३१ सोऽवदत् शान्तिकर्मादि ध्रुवभाविन्यकर्मठम् । श्रेष्ठ्यूचे सुधियोऽवश्यभाव्यपि घ्नन्ति तद्यथा ॥ ३२ क्षितिप्रतिष्ठित पुरे जितशत्रुर्महीपतिः । श्रीबुद्धिसागरो मन्त्री सागरः प्रतिभाश्रियाम् ॥ ३३ सुबुद्धिस्तनयस्तस्यान्यदा सदसि भू भुजः 1 आगन्नैमित्तिकः कोऽपि तीताऽनागतवर्तिवित् ॥३४ जयदेवेत्यथा शिष्योपविष्टो भूभुजोदितः । ज्ञानं क तेऽवक् स देव भूते भवति भाविनि ॥ ३५ ततोऽन्तिकस्थे सचिवे स राज्ञोचेऽत्र संसदि । कस्य किं भावि पक्षान्तः शुभाशुभमुदीरय ॥ ३६ विमृश्य ज्ञान्यवग देव प्रकाश भण्यते भण । सचिवेश कुटुम्बे पक्षान्तर्मारिरेष्यति ॥३७ सभयं भूधवोऽवादीत् कुतः सा सोऽवदत् प्रभोः । मंत्री नः पितृवन्मान्यो नापमान्यः कदापि भोः ॥ ३८ For Private & Personal Use Only ६१ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy