SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ५० Jain Education International लीलावतीसारे तत्पुत्राद्या निवर्तन्ते चेत् तदा जितकाश्यसौ । लब्धप्रसर आक्रोशत्युत्तमानपि दुर्मदी ॥१२ ततस्तद्भृत्यमित्राद्यैः कुते बध्यते च सः । तथाऽपि दुर्भषन्नेष क्षिप्यते चारकोदरे ॥ १३ तत्रापि च मदाध्यातों गुप्तिफानपि निन्दति । कदर्थितश्च तैर्याति नरकेऽयुतायुतः ॥ १४ ततः कथञ्चनोन्मज्ज्य चेज्जन्म लभते नृषु । तथापि हीनजात्यादिपङ्किलः किल जायते ॥ १५ प्राग्वदभ्याख्यानशूरोऽभिमानोद्धुरकन्धरः 1 पितृबन्धुसुहृत्स्वेष न स्निह्यति कथञ्चन ॥१६ सर्ववैरी पितृघाती सर्वस्वापहृतौ क्षितौ । भ्रम्यते रङ्क इव यद्वदेष सुलक्षणः ॥१७ नैष प्रभु सभाम्भोधावस्माभिरुपलक्ष्यते । किं दुष्कृतं च चक्रेऽसौ स्पष्टमाख्याहि सुप्रभो ॥१८ इत्युक्ते भूभुजा सूरिरुचे यस्तव पृष्ठतः । मदाध्मातः सदोद्ग्रीवः स्वदोर्वीक्षाकुलेक्षणः ॥ १९ नाम्ना सुलक्षणो निर्लक्षणः सैष विबुध्यताम् । यच्चासौ दुष्कृतं चक्रे तत् सम्प्रत्यभिधीयते ॥ २० ॥ युग्मम् मरुतो दक्षिणा यत्र सुमनः श्रेणयोऽद्भुताः । राजाऽवदातरुचिभाग् विमलाश्चाम्बरश्रियः ॥२१ १२. २. जितकाम्यसौ. [ १२-२४ तदस्ति भारते क्षेत्रे सदापिकविराजितम् । वसन्तवज्जनानन्दि श्रीवसन्तपुरं पुरम् ॥ २२ ॥ युग्मम् तत्र सिद्धार्थ नामाऽभूद्राजा यस्यात्मसम्भवः । वर्धमानो यशोराशिरमीयत जगत्त्रये ॥ २३ सौभाग्यभाग्यकमलावती श्रीकमलावती । तस्याग्रमहिषी जज्ञे याज्ञसेनी भिदान्तरम् ॥२४ For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy