________________
Lila.-7
Jain Education International
तृतीय उत्साहः
अथाऽपरेरुद्याने सुधर्मस्वामिसद्गुरुम् । नमस्कृत्यामात्यमुख्यै राजन् राजा व्यजिज्ञपत् ॥ १ प्रभो मानमृषाभाषाकुटुम्बस्य विजृम्भितम् । विजृम्भते मनः श्रोतुं सम्प्रति प्रतिपाद्यताम् ॥२ सूरिरुचे श्रीविजयसेन श्रीजयशासन । सूर पुरन्दर धनदेवं सम्यग् गर्वपर्व तमारूढो
निशम्यताम् ॥ ३
मृषादूषितचेतनः ।
उच्चैस्तरान् लघिष्ठोऽपि तृणायापि न मन्यते ॥ ४ तथा हि
जात्यान् जातिविहीनोऽपि विमानयति मानभाकू । महाकुलान् न्यक्कुलोऽपि कलङ्कयति केलिना ॥५ कामरूपान् कुरूपोऽपि दर्पान्धः प्रजुगुप्सते । तृणवत् कणमन्दोऽपि विब्रूते बलशालिनः ॥ ६ निरक्षरोऽप्यभिमानी निह्नुते ज्ञानभास्करान् । विकृष्टतपसोऽम्भोधीन् धान्यकीटोऽपि निन्दति ॥७ नानालब्धिनिधानेभ्यो लब्धिवन्ध्योऽप्यसूयति । दारिद्र्यदुःखदग्धोऽपि हसत्यैश्वर्यशालिनः ॥८ यं यं गुणं गुणवतामहङ्कारी करोत्यधः । तेन तेन गुणेनैष हीयते बहुशो भवे ॥९ किंबहुना ?
-
मातुः पितुः स्वसुर्भ्रातुः स्वजनस्य जनस्य च । गृह्णाति न गुणं वापि स्वाहङ्कारकदर्थितः ॥ १० यं दूषयत्यसौ तस्य पुत्रैर्मित्रैश्च बान्धवैः । निवार्यमाणः कलहायते प्रहरते च तान् ॥११
For Private & Personal Use Only
www.jainelibrary.org