________________
५६
लीलावतीसारे
[२५७-२७० अथ तूष्णीं स्थिते सूरावूचे श्रेष्ठीपुरन्दरः । राजन् द्रव्यस्तवाख्यानेऽप्याहुः पूज्या न कुर्विति ॥२५७ राजा विजयसेनोऽथ रामदेवमदोऽभ्यधात् । कञ्चित् कालं प्रतीक्षस्व यत् ते कुर्मो व्रतोत्सवम् ॥२५८ देवाविरत्या दुष्कर्म कारयन्त्या व्यगोपिषि । एकं ततो मेऽन्यद्युष्मत्प्रार्थनाभङ्गतो भयम् ॥२५९ तत् किं वच्मीति तेनोक्ते मन्यूचे जयशासनः । योगत्रये मनो धुर्यं तेन त्वविरतिर्न ते ॥२६०॥ युग्मम् किञ्चैव विहिते राज्ञोऽनुग्रहः पूरनुग्रहः । स च स्वानुग्रहस्तस्मान्मन्यतां मन्यते स्म सः ॥२६१ जयकुञ्जरमारोप्य रामदेवं ततो नृपः । ज्येष्ठं सहोदरमिव निनाय निजमन्दिरम् ॥२६२ 'अभ्यज्य राजस्नेहेन स्नेहेनेव वपुष्मता ।. उद्वय चन्द्रादिचूर्णैश्चूर्णेवि शिवंकरैः ॥२६३ संस्नाप्य गन्धोदकैश्च शान्ताद्भुतरसैरिव । धर्मध्यानरसेनेवालिप्य गोशीर्षचन्दनः ॥२६४ संवस्थ्य दिव्यवासोभिर्यशोभिरिव निर्मलैः । तत्तेजःस्तबकाकारैः सजयित्वा च चम्पकैः ॥२६५ सर्वाङ्गीणैरलङ्कारैर्गुणैरिव विभूष्य च ।। ऐरावणाग्रजमिवाधिरोप्य जयकुञ्जरम् ॥२६६ विराजमान छत्रण मित्रेणेव शरद्विधोः । चामराभ्यां वीज्यमानं बीचिभ्यां नु नभोधुनेः ॥२६७ प्रतितीर्थ स्थाप्यमानं सङ्गीतैः स्तम्भनरिव ।। भुवि धन्योयमेवेति स्तूयमानं च नागरैः ॥२६८ भट्टथट्टैः पठ्यमानं गीयमानं च गायकैः । पौरीभिः कीर्यमाणं च प्रसूनैरक्षतैरिव ॥२६९ श्रीरामदेवं विजयसेनराट् सपरिच्छदः । कौशाम्ब्यां भ्रमयामास भागधेयमिवाङ्गवत् ॥२७०॥
अष्टभिः कुलकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org