SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ४ २४५-२५६] द्वितीय उत्साहः सोऽयं पद्मोद्भवो वहनेदृषदः पल्लवोदयः । तस्यापि रामदेवस्य यज्जातिस्मृतिरभ्युदैत् ॥२४५ स्वप्रत्ययदृढीभूतगुरुवाक्प्रत्ययोऽथ सः । श्रीसुधर्मस्वामिपादान् प्रणम्येति व्यजिज्ञपत् ॥२४६ भगवन्नेवमेवैतन्नात्र संशीतिसम्भवः । चेद्योग्योऽस्मि भवाम्भोधेस्तन्निस्तारय सुप्रभो! ॥२४७ गुरुः - सौम्यानेकजनुर्जन्यकर्मशैलेषु वज्रति । प्रादुःषदुःखदावाचिःप्रशमेऽम्भोदवृन्दति ॥२४८ संसारापाराकूपारनिस्तारे यानपात्रति । पञ्चमहाव्रतीरूपा जैनी दीक्षा न संशयः ॥२४९ रामः - भगवन् वृत्तवृत्तान्त इव [मे] सांप्रतिक्यपि । चेतोवृत्तिः समक्षा वः प्रसीदत यथोचितम् ॥२५० गुरुःराजामात्यजनपदाविरोधी दीक्षणोचितः ।। त्वं तु नेहक परमतिशयिनामुचितोऽस्यपि ॥२५१ यत्तेऽद्य मम वाङ्मन्त्रैः क्रुत्पिशाचः पलायत । हिंसापिशाच्यपि कराऽन्ये च दुष्कर्मभूतकाः ॥२५२ जातिस्मरणशवेन हृभित्तिस्तेऽमलीकृता ।। चारित्रचित्रावताराधिकारोऽस्ति तदत्र भोः ॥२५३ रामः - अनुगृह्णन्तु मां पूज्याः कालक्षेपो न युज्यते । अत एव पूज्यकल्पपादपैर्मम सङ्गमः ॥२५४ गुरु :-- मधुवन् मधुमासोऽपि व्रते नार्वागदृशां मतः । कदाचनापि नाकालः प्रत्यक्षज्ञानिनां पुनः ॥२५५ चैत्रेऽप्यस्मै ततो दीक्षां दित्सू न् ज्ञात्वा गुरून् नृपः । व्यज्ञापयत् प्रभोऽमुष्य दीक्षायै कुर्महे महः ॥२५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy