________________
४४
लीलावतीसारे
[२३३-२४४ मर्मघातात् ते त्रयोऽपि सहसैव विपेदिरे । अधितष्ठौ स्वयं राज्यमथासौ निन्द्यचेष्टितः ॥२३३ ततश्च स स्वयं राजा दायादैः पर्यरुध्यत । उपेक्ष्यत च सामन्तैर्बुद्धिसागरभेदितैः ॥२३४ दायादा दानसन्मानैः सामन्तान् स्ववशे व्यधुः । ततश्चाजय्यतां प्रापुस्ते प्रक्षरितसिंहवत् ॥२३५ गेहेनर्दी रामदेवोऽवदद्राज्ये स्थिरीकृते ।। एतान् दायादसामन्तान्निग्रहीष्ये पशूनिव ॥२३६ पुरीपरिसरे योद्धं दायादा उपतस्थिरे । रामदेवोऽपि संनह्य सबलः सम्मुखोऽभवत् ॥२३७ ततो द्वयोरपि तयोः सैन्ययोः प्रजिगीषतोः ।
जज्ञे समरसम्म> रामरावणयोरिव ॥२३८ तथा हि - पत्तिः पत्तिमिभस्त्विभं हयवरोऽश्वं स्यन्दनः स्यन्दनं
सद्योऽभ्येत्तन (?) उद्धता भुजभतः स्वस्वेशराज्येच्छवः । प्रासाप्रासि धनुर्धनुष्यथ भुजाभुज्यस्यसि प्राहरन्
पत्त्यश्वेभरथप्रवाहसुभगा रक्तापगाश्चावहन् ॥२३९ भज्यमानं निजं सैन्यं वीक्ष्य दिक्षु क्षिपन् दृशौ । सर्वस्वेनापि रामः स स्वप्राणत्राणमैहत ॥२४० ततः प्राणप्रियीभूय . प्रहारभरजर्जरः ।। मुक्त्वा सर्वस्वमश्वेन सोऽनश्यत् कौरवेशवत् ॥२४१ विजित्य सर्व दायादैस्तस्य राज्यमधिष्ठितम् । स च भ्रान्त्वा विदेशेषु रामदेवोऽयमैदिह ॥२४२ सोऽथेदं भववृत्तान्तसंवादेन भवान्तरम् । तथेति विमृशन्मूर्छा व्याजात् तत्र किलागमत् ॥२४३ शीतोपचारतो मूर्छाविरामेऽचिन्त्यवीर्यतः ।
दुष्कर्मक्षयतस्तस्य जातिस्मृतिरथाभवत् ॥२४४ २३३.४. निद्य°.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org