SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ २१९-२३२] द्वितीय उत्साहः प्रत्यावृत्तस्ततो राजा जातः कल्याणभाजनम् । देवी ह्यन्यत्र गौरव्या न तु राज्यात्मसंशये ॥२१९ तदेव देवीकुमारौ कुरु पञ्जरचारिणौ । ... भवत्कीर्तिप्रतापौ स्तां जगत्पञ्जरचारिणौ ॥२२० प्रतिश्रुतं च तत् सर्व श्रीपद्मन महीभुजा । सुबुद्धीनां सुभक्तानां वचः को नानुमन्यते ॥२२१ इत्येकान्तवचः सर्व द्वारदेशस्थितात्मना । आकणितमकर्णेन रामदेवेन पाप्मना ॥२२२ ततः समुच्छलत्क्रोधघूमध्वजकरालितः । संतप्तताम्रताम्राङ्गः स कृतान्तोऽभ्यधादिति ॥२२३ : दुर्बुद्ध यदि दुर्बुद्धिविषं तेऽन्तरजायत ।। तत् किं दुरात्मस्तेना, वृद्धं मूढममू मुहः ॥२२४. दुर्बुद्धिविषदानस्य फलमद्यैव भुक्ष्व तत् । इत्युक्त्वासौ कुधीः क्षुर्या सुबुद्धिं प्राहरद् हृदि ॥२२५ आः पाप जगतीताप ग्रीष्मभीष्मदवानल । भक्तियुक्ते नित्यभृत्ये पापं किमिदमादधाः ॥२२६ इति ब्रुवन्तं स्वं तातमाजन्माऽप्युपकारिणम् । सर्वशत्रुः स कुपुत्रोऽसिपुत्र्याऽहन् यकृत्यलम् ॥२२७॥ युग्मम् ततः कलकलो जज्ञे हा हा सांराविणोल्वणः । सा प्रियङ्गुलताऽऽगत्य सर्व दृष्ट्वेदमभ्यधात् ॥२२८ हा धिग धिक कर्मचण्डाल भुवः काल करालदृक् । . निकृष्ट धष्ट पापिष्ठ पितरीदं किमाचरः ॥२२९ त्वं मे किमागमः कुक्षौ तत्रैव गलितो न किम् । .. न च्युतः किमनिष्पन्नो य एवं तातमावधीः ॥२३० इति वाणां जननी जननीचः स पातकी । कृपाण्या कृपया मुक्तो जघान कुलपांसनः ॥२३१ ततस्तेभ्यः प्रहतेभ्यो रक्तकुल्या त्रिधाऽवहत् । रक्तनद्यो नरकेभ्य इव तं वातुमैयरुः ॥२३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy