________________
४२.
लीलावतीसारे
[२०६-२१८ सा च पातालदिव्यस्त्री पराप्ता पत्युरन्तिके । आख्यद् देवाद्य सरसि मज्जितुं प्राप्तवत्यहम् ॥२०६ अमुना प्रार्थिता राज्ञाऽनिच्छन्ती कशया हता । स क्रुद्ध आययौ यावत् तावद् भूपः प्रबुध्य सः ॥२०७ राश्य तडागवृत्तान्तमामूलान्तमचीकथत् । स च देवस्तदा काम्यं प्रससाद नृपोपरि ॥२०८॥ युग्मम् ततः शरीरचिन्तार्थमुत्तस्थौ पृथिवीपतिः । प्रत्यक्षीभूय देवोऽवग राज्ञो स्वागमकारणम् ॥२०९ त्वदुक्तिश्रवणाद् भूप ! तुभ्यं तुष्टो वरं वृणु । भूपोऽवदत् सर्वसत्त्वभाषाविज्ञं विधेहि माम् ॥२१० एवमस्तु परमन्यस्याख्याने मृत्युरेव ते । एवं राज्ञे वरं दत्वा देवः स्वास्पदमासदत् ॥२११ पात्रभृत्यन्यदा देव्यां श्रीभूपे स्वं विलम्पति । आनयामुं मेऽङ्गरागं पतिमूचे गृहोलिका ॥२१२ सोऽवग मार्यऽस्मि नानेष्ये मुहुस्ताविति जल्पतः । राजाऽहसद् देव्युवाच हसितं केन हेतुना ॥२१३ राजारव्यदेवमेवेति देव्युचेऽवश्यमादिश । राजोचेऽपाय आख्याने ब्रहीत्येवाह सा कुधीः ॥२१४ बहिश्चितां कारयित्वा देव्या सह गजस्थितः ।। दानं ददानः सपरीवारो भूपः पुरान्निरैत् ॥२१५ तदा छाग्याऽयाचि भर्ताऽन्धकूपतटवल्लरीम् । सोऽवदल्लातुभीशे न सोचे तन्नास्मि ते प्रिया ॥२१६ छागोऽवदत् किमनेन सहशोऽहं महीभुजा । योऽन्यराज्ञीसम्भवेऽपि म्रियतेऽस्याः कृते मुधा ॥२१७ पशुस्तदेष नाहं मे त्वां विनाऽन्या भविष्यति ।
राज्ञाऽचिन्ति यदेषोऽपि जानात्येतदहं न हि ॥२१८ २११.३. एव. २१२.१. त्यनृदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org