SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ २१ १९४-२०५] द्वितीय उत्साहः तत् त्वमेव महाबुद्धे यत् कृत्यं मे निवेदय । राज्ञां कृच्छ्रार्णवेऽभ्यणे कर्णधारा हि मन्त्रिणः ॥१९४ सुबुद्धिः - देवनीतिरियं धुर्यः कुमारः पञ्जरोदरे । राज्ञोपचों राज्यार्थी कार्षीन् माऽकाण्डविड्वरम् ॥१९५ रामदेवकुमारेऽप्यनागारे ततोऽस्तु तत् । स्वामिन्नेतत् प्रियो भूत्वा मैव सर्व विनीनशत् ॥१९६ राजा - श्रीप्रियङ्गुलतादेवी कुमारस्नेहविह्वला । एतत् प्राणप्रहाणेऽपि कथञ्चन न मंस्यते ॥१९७ सुबुद्धिः - श्रीदेवीमवधीर्यापि कार्यमेतन्महीपते ! । येन देवाय राज्याय प्रजाभ्यः स्वस्ति जम्भते ॥१९८ श्रयतामत्र दृष्टान्तः कोऽप्यासीत् पृथिवीपतिः । वने सोऽश्वहृतोऽयासीदवरूढस्तुरङ्गमात् ॥१९९ सरस्तीरे वटतले यावद् विश्राम्यति क्षणम् । सरसो निर्गता तावत् काचित् पातालकन्यका ॥२०० राज्ञः पश्यत एवासौ सद्योऽजायत सर्पिणी । वटकोटरतः सो गोनसश्च विनिर्ययौ ॥२०१ तौ च द्वावपि रेमाते राज्ञा क्रुद्धेन ताडितौ । कशया रे दुराचारौ कुरुथोऽकर्म मत्पुरः ॥२०२ वियुज्य गोनसो नष्टस्तत्रैव वटकोटरे । अन्या सरसि राज्ञश्च हृद्यजायत कौतुकम् ॥२०३ राज्ञोऽश्वखुरमार्गेण सैन्येनाथ समेयुषा । साधं नृपः पुरं प्राप जज्ञे वर्धापनं महत् ॥२०४ विसृज्यामात्यसामन्तान् प्रदोषे वासवेश्मनि । विशश्राम महादेव्या सह सर्वसहापतिः ॥२०५ Lila.-6 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy