SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ २७१-२८०] द्वितीय उत्साहः तं स्वसौधे ततो नीत्वा कृतश्रीदेवतार्चनः । तदीयपाणिपद्मेन प्रतिलाभ्य च सन्मुनीन् ॥२७१ विमानितविमानेऽथ राजभोजनमण्डपे । अगण्यपुण्यकूटे तु सिंहासने निवेश्य च ॥२७२ चर्काचूष्यलेह्यपेयाद्याहारममृतोपमम् । सगौरवं महाराजो भोजयत् सार्धमात्मना ॥२७३।। त्रिभिविशेषकम् भोजनानन्तरं ताम्बूलाद्यः सम्मान्य सादरम् । दानं प्रदेहि देहिभ्य इति राज्ञोक्त आह सः ॥२७४ श्रीराजेन्द्रमहादानमभीदान प्रकीर्त्यते । तच्च दत्तं मया पूर्वमन्यच्चाचारमात्रकम् ॥२७५ सविस्मयं नृपो मन्त्रिमुख्यानां मुखमैक्षत । पुरोधाः शूर ऊचेऽथ निरीहाणामियं गतिः ॥२७६ धनः सार्थप आहेत किञ्चित् स्वाभीष्टमादिश । विहस्य रामदेवोऽवक् श्रूयतां मन्मनीषितम् ॥२७७ सर्वचैत्यार्चनं बन्दिमोक्षो मारिनिवारणम् ।। राजोचेऽदः प्रगे कार्य वीर रात्रिं तु जागृत ॥२७८ द्वितीयेऽह्नि स्वेप्टं सकलमपि निर्माप्य सहसा जयेनारूढः श्रीनृपसुतधृतच्छत्रचमरः । स्फुरदिव्योल्लोचे प्रतिपदमणीतोरणचणे जिनागारे रामश्चरणकमलां वोढुमगमत् ॥२७९ सुधर्मस्वामी च प्रपठितमहामङ्गलकल द्युसद्वर्गासेव्यः सपदि मुदितः सङ्घसहितः । जिनागारे तत्र त्रिदशपुरसिद्धालयकृता नुकारे प्राणसीत् प्रभुऋषभदेवं प्रथमतः ॥२८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy