SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीश्रीवल्लभगणिविनिर्मिता __ मार्दीकमपि मधे मृद्वीकाया विकारो मार्कीकम् । “विकारे" [६।२।३०] इति अण् । मदस्य करणं मद्यम् । “मतमदस्य करणे" [६।१।१४] इति यः । तत्र । मदयित्नुः इरासवः च । अनुतर्षोऽपि चषके स्मृतः। अनु तृष्यति अनेन अनुतर्षः । घञ् । चषन्ति पिबन्ति अनेन चषकः । “दकनमसृ०" [उ. २७] इति अकः । तत्र । अमरस्तु-अनुतर्षशब्दं सुरापरिवेषणपर्या यमाह । कुविन्दे तन्तुवायोऽपि कुं विन्दति कुविन्दः । “निगवादेर्नाम्नि" [५।१।६१] इति शः । कुत्सिता बिन्दवः-जलकणा अस्येति वा कुविन्दः, पृषोदरादित्वाद् बकारस्य वकारः । तत्र । तन्तुम् तन्त्रातानम् वयति तन्तुवायः । “कर्मणोऽ" [५।१।७२] इति अण् । वेमा वेमोऽपि कीर्त्यते ॥७९॥ "वेग तन्तुसन्ताने" वयन्ति अनेन वेमा, वानदण्डः' । पुंक्लीबलिङ्गः । "सात्मनात्मन्वेमन्" [उ. ९१६] इति मन् प्रत्यये निपात्यते । “रुक्मग्रीष्म०" (उ. ३४६] इति मे निपातनात् वेमः । कीर्यते---निगद्यते बुधैरिति गम्यम् ॥७९॥ रजको धावकोऽप्युक्तः "रञ्जी रागे" रजति रजकः । "नृत्खनरञ्जः०" [५।११६५] इति अकट् । "अकधिनोश्च०" [४।२।५०] इति नलोपः । “धावूग् गतिशुद्धयोः" धावति वस्त्राणि धावकः । “नाम्नि पुंसि च" [५।३।१२१] इति णकः । पादत्राणं च पादुका। ___ पादौ त्रायते अनेन पादत्राणम् । “करणाऽऽधारे" [५।३।१२९] इति अनट् । पादूरेव पादुका "ड्यादीदूतः के" [२।४।१०४] इति हूस्वः । तैलिकस्तिलन्तुदोऽपि तैलम् अस्त्यस्य तैली। स्वार्थिक के, तैलिकः । तैलम् विद्यतेऽस्य वा तैलिकः । "अतोऽनेकस्वरात्" [७।२।६] इति इकः । तिलम् तुदति तिलन्तुदः । "बहुविध्वइस्तिलात् तुदः" [५।१।१२४] इति खर् प्रत्ययः । रथकारोऽपि वर्धकिः॥८॥ १. प्रा. 'वानदण्डः ' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy