SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका रथम् करोति रथकारः । “कर्मणोऽण्" [५।१।७२] इति अण् । वर्धयतिछिनत्ति काष्ठानीति वर्धकिः । “वर्धरकिः" [उ.६२४] इति अकिः ।।८०॥ चित्रकरो लिखकश्च चित्रम् करोति चित्रकरः । “संख्याऽहर्दिवा०" [५।१।१०२] इति टः प्रत्ययः । लिखति चित्राणि लिखकः । “ध्रुधून्दिरुचितिलिपुलि." [उ.२९] इति किद् अकः । लेप्यकुल्लेपकोऽपि च। लेप्यम् करोति लेप्यकृत् । “लिपीत् उपदेहे" लिम्पति लेपकः । "नाम्नि पुसि च" [५।३।१२१] इति णकः । कुतूहले विनोदोऽपि कुत्सितम् तोहति कुतूहलः । "मुरलोरल." [उ.४७४] इति अले निपात्यते। विनोदनम् विनोदः । घनन्तः । सौनिकः खट्टिकोऽपि च ॥८॥ सूना प्रयोजनमस्य सौनिकः । “प्रयोजनम्" [६।४।११७] इति इकण । "खट्टण संवरणे" खट्टयति खट्टिकः। “कुशिकढदिकमक्षिका०" [उ. ४५] इति इके साधुः । खट्टोऽस्त्यस्य वा । “अतोऽनेकस्वरात्" [७।२।६] इति इकः ॥८१॥ कूटयन्त्रे पाशयन्त्रम् कूटेन- छलेन यन्त्र्यतेऽनेन कूटयन्त्रम् , तत्र । पाशेन-बन्धनप्रन्थिना यन्त्र्यते अनेन पाशयन्त्रम् । समौ चाण्डालपुक्कसौ । चण्डते चण्डालः । "ऋकृमृ०" [उ.४७५] इति आलः। चण्डमालम् मृषा अस्येति वा 1 यद् व्याडिः "चण्डमालं मृषा यस्येत्यर्थः शब्दवतां मतः" । [ ] इति । चण्डाल एव चाण्डालः । प्रज्ञाधण् । पुत्-कुत्सितम् कसति-याति पुक्कसः । पृषोदरादित्वात् दन्त्यान्तः । “चक्क चुक्कण् व्यथने" चुक्कयति चुबस इत्येके, "फनस०" [उ.५७३] इति असे निपात्यते । द्वितीयवर्गाधक्षरादिरयम् । श्वपचो डोम्बः, पुक्कसो मृतप इति अवान्तरभेदोऽत्र नाऽऽश्रितः । इत्थं तृतीयकाण्डस्य शिलोग्छोऽयं समर्थितः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy