SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका लक्षे च नियुतम् दशाऽयुतानि लक्षम् “विंशत्यादयः " [६ । ४ । १७३ ] इत्यनेन लक्षम् इति निपात्यते । लक्ष्यते अनेन वा लक्षम् । स्त्रीक्लीबलिङ्गः । षष्ठम् अङ्कस्थानम्, तत्र । यदाह ४७ एकं दश शतमस्मात्सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुदमब्जं खर्वं निखर्वं च ॥ तस्मान्महासरोजं शंकु सरितांपतिः ततस्त्वन्त्यम् । मध्यं परार्ध माहुर्यथोत्तरं दशगुणं तज्ज्ञाः ॥ इति । दश अयुतानि मानम् एषामस्य वा नियुतम् । “विंशत्यादयः " [ ६ |४| १७३] इत्यनेन नियुतम् निपात्यते । प्रयुतम् अपि । पोते स्मृतं प्रवहणं बुधैः ॥७७॥ पूयते अनेन पोतः “दम्यमि० " [ उ. २००] इति तेः । तत्र स्मृतम् उक्तम् । प्रोहयतेऽनेन प्रवहणम् । “करणाधारे " [५|३|१२९] इति अनट् ॥७७॥ कर्णोऽप्यरित्रे दुर्गस्य कीर्यते अनेन नौः कर्णः । " इणुर्विशा ० " [ उ. १८२] इति णः । ईयर्त्ति अनेन नौः अरित्रम्, तत्र। “ऌबूसू खनि०" [५/२१८७ ] इति इत्रः । दुर्गस्य इति दुर्गसिंहमते आह च - " कर्णः श्रोत्रमरित्रं च" । [ ] इति । वेश्वरोऽपि गोमति । गवामीश्वरो गवेश्वरः । " स्वरे वाऽनक्षे” [ १/२/२९] इत्यनेन गोशब्दस्य ओकारस्य पदान्ते वर्तमानस्य स्वरे परे सति अव इत्यादेशो वा भवति । पक्षे गवीश्वरः । गावः सन्ति अस्य गोमान् । " तदस्यास्त्यस्मिन्निति मतुः " [७|२|१] इति मतुः । तत्र । कर्षके क्षेत्रजीवोsपि Jain Education International कर्ष भुवम् कर्षकः कः, तत्र । क्षेत्रेण जीवति क्षेत्रजोवः, क्षेत्राजीवोऽपि । कोटीशी लोष्टभेदनः ॥७८॥ कोटीभिः - कोणैः श्यति - खण्डयति कोटीशः । "क्वचित् ” [५|१|१७१] इति डः । अन्ततालव्यः । लोष्टान् भिनत्ति लोष्टभेदनः । “ नन्द्यादिभ्योऽनः” [५।१।५२] इति नः ॥ ७८ ॥ १. जे. प्रतौ — ' दम्यमीति तः' इति पाठो नास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy