________________
४६
श्रीश्रीवल्लभगणिविनिर्मिता नित्यद्रव्यवृत्तयोऽन्त्या विशेषास्ते प्रयोजनमस्य वैशेषिकम् शास्त्रम् तद्वेत्त्यधीते वा वैशेषिकः, तत्र । कणान् अत्ति कणादः "कर्मणोऽण्" [५।१।७२] इति अण् । कणान् आदत्ते वा । 'क्वचित्' [५।१।१७१] इति डः ।
जैनोऽनेकान्तवाद्यपि । जिनो देवताऽस्य जैनः । अनेकान्तम् स्याद्वादम् वदतीति अनेकान्तवादी । ग्रहादित्वाद् णिन् ।
चार्वाके लौकायितिकः
"चर्व गतौ” चर्वति आत्मानं चार्वाकः । “मवाकश्यामाक." [उ. ३७] इति आके निपात्यते । लोकेषु आयतं लोकायतम्, बृहस्पतिप्रणीतं शास्त्रम् तद्वेत्त्यधीते वा लौकायितिकः । “याज्ञिकौथिकलौकायितिकम्" [६।२।१२२] इति इकण् प्रत्यये निपात्यते, निपातनाच्च यकाराकारस्य इकारः ।
कृषिः प्रसूतमित्यपि ॥७६॥ कर्षणम् कृषिः । “नाम्युपान्त्यकगृ०" [उ. ६०९] इति किद् इः । “सृ गतौ" प्रनियते प्रसृतम् । कर्षणनाम्नी ॥७६॥
न्यासार्पणे परिदानम्
न्यासस्य-निक्षेपस्य अर्पणम्-निक्षेप्त्रे प्रतीपम् दानम् न्यासार्पणम् , तत्र । परिवर्ताद दानम् परिदानम् , प्रतीदानम् अपि । स्मार्ते त्वस्य भेदोऽस्ति ।
"वासनस्थमनाख्याय हस्ते न्यस्य यदर्पितं । द्रव्यं तदुपनिधिया॑सः प्रकाश्य स्थापितुं तु यत् ।। निक्षेपः शिल्पहस्ते तु भाण्डं संस्कर्तुमर्पितम् ।" इति ।
तत्रैवं व्याख्या-न्यासः-प्रकाश्य यत् स्थापितं तद् द्रव्यम्, तस्य अर्पणम् न्यासार्पणम्, तत्र ।
वणिक् प्रापणिकः स्मृतः। पणायति व्यवहरते वणिक् । “भूपणिभ्यामिज मुखणौ च" [उ. ८७५] इति 'इज्' प्रत्ययः, पणेश्च वण इत्यादेशः । प्रापणायति प्रापणिकः । “प्राङः पणिपनिकषिभ्यः" [उ. ४२] इत्यनेन 'प्राङः' इत्यस्माद् उपसर्गसमुदायात् परस्य “पणि व्यवहारस्तुत्योः" इत्यस्य इकः प्रत्ययः । प्रपूर्वात् पणेरपि इच्छन्ति अन्ये । तन्मते प्रपणिकोऽपि । आपणिका, पनिका, पदिका, पतिका, अपि । एते सर्वेऽपि “आङः पणिपनिपदिपतिभ्यः" [उ. ३९] इत्यनेन इक प्रत्यये साधवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org