________________
हैमनाममालाशिलोञ्छदीपिका मैत्रावरुण्यादिकवी
वल्मीकस्य अपत्यं वाल्मीकिः । बाह्रादित्वाद् इञ् । तत्र । मित्रावरुणयोरपत्यं मैत्रावरुणिः । ऋषिसमुदायस्यानृषित्वाद् इञ् । आदौ कविः आदिकविः । इमौ द्वौ-मैत्रावरुण्यादिकविशब्दौ ।
पशुरामोऽपि भार्गवे । पशुना-कुठारेण रमते पशुरामः । “वा ज्वलादि०" [५।११६२] इति णः । परशुरामोऽपि । भृगोरपत्यं भार्गवः । “ऋषिवृष्णि." [६।११६१] इति अण् । तत्र ।
योगीशो याज्ञवल्क्यः
योगिनामीशः योगीशः । यज्ञवल्कस्य अपत्यं याज्ञवल्क्यः । गर्गादित्वाद् यञ् ।
दाक्षीपुत्रोऽपि पाणिनौ ॥७॥ दाक्ष्याः पुत्रो दाक्षीपुत्रः । पाणिनस्यापत्यं पाणिनिः । “अत इञ्" [६।१।३१] इति इञ् । तत्र ॥७४॥
स्फोटायनः स्फोटायनः ।
स्फोटम्-शब्दस्फोटम् अयते स्फोटायनः स्फोटवादित्वात् । स्फुटस्य अपत्यं स्फोटायनः । “अश्वादेः” [६।१।४९] इति आयनञ् ।।
कात्यो वररुचौ तथा । कतस्यापत्यं कात्यः । कात्यः पिताऽस्त्यस्य कात्यः । अभ्रादित्वाद् अः। अभेदोपचारात् । वरा रुचिः अस्य वररुचिः, तत्र ।
कारेणवः पालकाप्ये
करेणोः-करिण्या अपत्यं कारेणवः । “ङसोऽपत्ये" [६।१।२८] इति अण् । पालकैः-हस्तिचिकित्सकैः आप्यते-आप्तत्वेन प्राप्यते पालकाप्यः, तत्र । "ऋवर्ण-व्यञ्जनाद् ध्यण्" [५।१।१७] इति ध्यण् ।
चाणक्यश्चणकात्मजे ॥७५॥ चणकस्य ऋषेरपत्यं चाणक्यः । “गर्गादेर्यञ्'' [६।१।४२] इति यञ् । चणकस्य ऋषेः आत्मजः चणकात्मजः, तत्र ॥७५॥
वैशेषिके कणादोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org