SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोज्छदीपिका परिबीते-वर्द्धयते परिबीते' प्राधान्यम् भज्यते हिंस्यते वाऽनेन परिबर्हणम् । "करणाऽऽधारे" [५।३।१२९] इति अनट् । परिधायोऽपि ॥६१॥ मन्त्री बुद्धिसहायोऽपि मन्त्रः कर्तव्यावधारणम् अस्त्यस्य मन्त्री। बुद्धयाः सहायः-सखा बुद्धिसहायः । "मन्त्रिण गुप्तभाषणे" “पदिपठिपचिस्थलि०" [उ. ६०७ ] इति 'इ' प्रत्यये मन्त्रयति मन्त्रिः इत्यपि । वेत्री वेत्रधरोऽपि च । वेत्रम्-वेत्रदण्डः अस्त्यस्य वेत्री । वेत्रम् धरतीति वेत्रधरः । हेमाध्यक्षे हैरिकोऽपि । हेम्नः स्वर्णस्य अध्यक्षः हेमाध्यक्षः । तत्र हिरण्ये नियुक्तो हैरिकः, इति नैरुक्ताः । “तत्र नियुक्ते" [ ६ । ४ । ७४ ] इति इकण् । टङ्कपतिस्तु नैष्किके ॥ ६२ ॥ टङ्कानाम्-दीनारादीनाम् पतिः टङ्कपतिः । निष्के-दीनारादौ नियुक्तो नैष्किकः। "तत्र नियुक्ते" [ ६ । ४ । ७४] इति इकण् ॥ ६२॥ शुद्धान्ताध्यक्ष आन्तर्वेश्मिकान्तःपुरिकावपि । शुद्धान्ते--अन्तःपुरे अध्यक्षः शुद्धान्ताध्यक्षः । अन्तर्वेश्मनि नियुक्तः आन्तर्वेश्मिकः । अन्तःपुरे नियुक्तः आन्तःपुरिकः । उभयत्र "तत्र नियुक्त" [ ६।४।७४ ] इति इकण् । सहाय-साप्तपदीनौ सख्यौ। सह अयते चरति सहायः । सप्तभिः पदैः अवाप्यते साप्तपदीनः । “समांसमीन." [७) १।१०५] इति ईनञि साधुः । सनोति सनति वा सखा-मित्रम्, तत्र । "सनेर्डखिः" [ उ. ६२५ ] इति डखिः । नन्तोऽपि । असुहृदप्यरौ ॥ ६३॥ न सुहृत्-मित्रम् असुहृत् । नास्ति शोभनम् हृदयम् अस्य वा । इयर्ति अरिः । "स्वरेभ्य इ:" [उ. ६०६ ] इति इः । तत्र दुर्भिदः, भ्रातृव्यः, निगृहीतासिः, आततायी च ।। ६३॥ नये नीतिरपि। नयनम् नयः । अल । नयति शोभाम् वा। " अच्" [ ५।१। ४९ ] इति अच् । तत्र । नीयते नयनम् वा नीतिः । "स्त्रियां क्तिः” [ ५।३। ९१ ] इति क्तिः । १. जे प्रतौ-'वद्धर्धते परिबह्यते' इति पाठो नोपलभ्यते । २. जे. सुवर्णस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy