SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३८ श्रीश्रीवल्लभगणिविनिर्मिता ___ राद मूर्भावसिक्त इत्यपि । राजते दीप्यते राट् राजा । मूर्द्वनि-मस्तके अवसिच्यते स्म मूर्द्धावसिक्तः । भरतः सर्वदमनोऽपि बिभर्ति धरणीम् इति भरतः-दौष्यन्तिः। "हपृ०" [उ. २०७] इति अतः । सर्वान् दमयति सर्वदमनः । “नन्द्यादिभ्योऽनः' [५।१।५२] इति अनः । __ अथ दाशरथावुभौ ॥५९॥ रामचन्द्र-रामभद्रौ दशरथस्य अपत्यम् दाशरथिः । “अत इञ्" [६।१।३१] इति इञ् । तत्र दाशरथौ रामे । रमते रामः “वा ज्वला." [५।१।६२] इति णः । चन्दति दीप्यते आह्लादयति वा चन्द्रः । “ऋज्यजि०" [उ. ३८८] इति कित् रः। रामश्वासी चन्द्रश्च रामचन्द्रः । भन्दते मनोऽत्र भद्रः । “भन्देर्वा” [उ. ३९१] इति रो नलुक् । रामश्चासौ भद्रश्च रामभद्रः । हनूमानपि मारुतौ। हनुः अस्त्यस्य हनूमान् । “घञ्युपसर्गस्य बहुलम्" [३।२।८६] इति बहुलवचनात् दीर्घः । इन्द्रव्याकरणे तु "क्वचिन्मतो दीर्घः" [ ] इत्यनेन सूत्रेण दीर्घः । “हनूः इति दीर्घोकारान्तोऽयम्" इति अन्ये । मारुतस्य अपत्यम् मारुतिः । “अत इञ्” [६।१।३१] इति इञ् । तत्र । वालौ सुग्रीवाग्रजोऽपि, वालयतीति वालिः । “स्वरेभ्य इ.'' [ उ. ६०६] इति इः । तत्र सुग्रीवस्य अग्रजः सुग्रीवाग्रजः । पार्थे बीभत्सुरित्यपि ॥६०॥ पृथायाः-कुन्त्या अपत्यम् पार्थः अर्जुनः, तत्र बीभत्सते बीभत्सुः । “सन्भिक्षाऽऽशंसेरुः" [५।२।३३] इति उः ॥६०॥ सातवाहनवत् सालवाहनोऽपि प्रकीर्तितः। सातम्-दत्तम् सुखम् वाहनम् अस्य सातवाहनः । सालस्य-देवदारुद्रुमस्य वाहनम् अस्य सालवाहनः । सालम्-लक्ष्मीदीप्तम् वाहनम् अस्येति वा । वदर्थः प्राग्वद् अवसेयः । प्रकीर्तितः कथितः बुधैरिति गम्यते ।। परिच्छदे परिजनः परिबर्हणमित्यपि ॥६॥ परितश्छाद्यतेऽनेन परिच्छदः । “पुन्नाम्नि." [५।३।१३०] इति घे, “एकोपसर्गस्य." [४।२।३४] इति हुस्वः । परिवारः तत्र परितो जन्यतेऽनेन परिजनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy