SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोम्छदीपिका ३७ मङ्कयते मण्ड्यते वपुः अनेन मुकुरः। “मधेर्न लुक् वोच्चास्य" [उ.४२४] इति । "मकुङ् मण्डने" इत्यस्य उरः प्रत्ययः नकारस्य लुक्, अकारस्य च वा उकारः स्यात् । आत्मा दृश्यते अनेन आत्मदर्शी दर्पणः, तत्र।। अथ कशिपुः कसिपुः समौ ॥५७॥ कसति गच्छति क्लेशोऽनेन कसिपुः । पुंक्लीबलिङ्गः । "कश शब्दे" कशति क्लेशम् कशिपुः । तालव्यमध्य इति अमरः। उभयत्र “कस्यत्तिभ्यामिपुक्"[उ.७९८] इति इपुक् ॥५७॥ यावकालतकौ यावे याव एव यावकः । "यावादिभ्यः कः" [७३।१५] इति स्वार्थे कः प्रत्ययः । न लज्जते अलति दीप्यते वा अलक्तः । “पुतपित्त०" [उ. २०४] इति ते निपात्यते । यद्वा ईषद् रक्त अरक्तस्ततो रस्य लत्वम् । “यावादिभ्यः कः" [७।३।१५] इति स्वार्थिक के, अलक्तकः । यूयते यौति मिश्रीभवति वा यवः । स एव "प्रज्ञादि०" [७।२।१६५] अणि, यावः, तत्र । यद् धनपाल: "तद्रागो यावकोऽलक्तकः स्मृतः" । अमरादयस्तु— “यावालक्तौ लाक्षादिभिः सहैकार्थो"[ ] आहुः । __ तुल्ये व्यजनवीजने। व्यजन्ति विक्षिपन्ति वीतम् अनेन व्यजनम् , तालवृन्तम् । अनट् । “ईजि कुत्सने च, चकाराद् गतौ" विशेषेण ईज्यते प्रेर्यते वीजनम् । “अनट्"[५।३।१२४] इति अनद । “वीजण व्यजने" अनटि, इत्यस्य वा रूपम् । तुल्ये-समे । गिरीयको गिरिकोऽपि बालक्रीडनके मतौ ॥१८॥ गीर्यते याति च गिरीयकः । पृषोदरादित्वात् साधुः । गीर्यते गिरिः । “नाम्युपान्त्यकग०" [उ.६०९] इति किद् इः, स्वार्थिक के, गिरिकः । बालाः क्रीडन्ति अनेन बालक्रीडनम् , स्वार्थिके के बालक्रीडनकम् , तत्र, मतौ-सम्मतौ ॥५८॥ गेण्डुकोऽपि गेन्दुकः गाते गच्छति गाः-गन्छन् ईड्यते-स्तूयते गेण्डुकः । “कञ्चुकांशुक०" [उ.५७] इति उके निपात्यते । गाः-गच्छन् इन्दुकः-गुडकः गेन्दुकः, गगने इन्दुरिव वा पृषोदरादित्वात् साधुः । कन्दुः अपि । १. जे. इत्यस्मात् रः। २. जे. वातमनोन । ३. प्रा. प्रतौ-'वीजण व्यजने अनटि इत्यस्य वा रूपम्' इति नास्ति पाठः । प्रा. ४ 'गुडकः' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy