________________
श्रीश्रीवल्लभगणिविनिर्मिता "कुरत् शब्दे" कुरति कूर्पासः। “कृकुरिभ्यां पासः" [उ. ५८३] इति पासः । कूपरे अस्यते वा, पृषोदरादित्वात् साधुः । अङ्गस्य प्रतिकृतिरिति अङ्गिका । "तस्य तुल्ये कः संज्ञाप्रतिकृत्योः" [७१।१०८] इति कः । कञ्चुलिकानाम्नी ।
कक्षापटे कक्षापुटोऽपि च । कक्षयोः पटः कक्षापटः, कौपीनम् , तत्र कक्षयोः पुटः कक्षापुटः । कुथे वर्णपरिस्तोम इत्यखण्डं जगुः परे ॥५५॥ तत्रास्तरणमिति च
कुथ्यते क्लिश्यते कुथः स्थादित्वात् कैः । क्रियते कार्यते वा "पथयूथ." [उ.२३१] इति थे निपात्यते । तत्र वर्ण्यते वर्णः । परिस्तोम्यते प्रस्तीर्यते परि स्तोमः । वर्णश्चासौ परिस्तोमश्च वर्णपरिस्तोमः । अखण्डम् परिपूर्णम् जगुः-ऊचुः अपरे आचार्याः ॥५५॥ तत्र कुथे "स्तृग् आच्छादने" आस्तीर्यते हस्तिपृष्ठम् अनेन आस्तरणम् । “करणाऽऽधारे" [५।३।१२९]इति अनट् ।
पल्यङ्कोऽप्यवसक्थिका। पर्यञ्च्यते पर्यङ्कयते वा पल्यङ्कः । “परेर्धाङ्क०" [२।३।१०३] इति लत्वम् । सक्थिप्रतिकृतिः सक्थिका, यष्टिः । अव आलम्बने अव्ययम् । अव आलम्बनार्थम् सक्थिका अत्र अवसक्थिका । अवनद्धे अवकृष्टे वा सक्थिनी अस्याम् अवसक्थिका। "सक्थ्यक्ष्णः स्वाङ्गे" [७।३।१२६] इति समासान्तः टः प्रत्ययः, टित्त्वात् ङीः, ततः स्वार्थे कः प्रत्ययः ।
यमन्यपि प्रतिसीरा
"यमू उपरमे" यच्छन्ति अस्याम् यमनी । यम्यतेऽनया वा अनट् । प्रति सिन्वन्ति एनाम् प्रतिसीरा । “चिजिशुसि." [उ.३९२] इति रः ।।
स्त्रस्तरः प्रस्तरोऽपि च ॥५६॥ स्रंसते अत्रेति स्रस्तरः । “जठर०" [उ.४०३] इति अरे निपात्यते । प्रकर्षेण स्तीर्यते प्रस्तरः, पल्लवपत्रादिरचिता शय्या ॥५६॥
प्रतिग्रहपतद्ग्राहावपि स्यातां पतद्ग्रहे ।
प्रतिगृह्णाति आवेलकादि प्रतिग्रहः । पतद् गृहणाति पतग्राहः । “वा ज्वलादि०"[५।१।६२] इति णः । स्याताम् -भवेताम् । पतद् गृह्णाति पतद्ग्रहः, तत्र ।
मुकुरोऽप्याऽऽत्मदर्शे१. जे. स्थादित्वात् साधुः । २. प्रा. प्रस्तार्यते । ३. प्रा. “हस्तिपृष्ठम्" नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org