________________
३५
हैमनाममालाशिलोञ्छदीपिका "व्यञ्जनाद् घ" [५।३।१३२] "वाऽवाप्योस्तनिक्रीधाग्नहोर्वपी" [३।२। १५६] इति अवस्य 'व' आदेशे वतंसः। अवतनोति शोभाम् इति अवतंसः, तत्र । “व्यवाभ्यां तनेरीच्च वेः" [उ. ५६५] इति सः । वीतंसोऽपि ।
पत्रभङ्गयां तु पण्डितैः। पत्राद् वल्लरी तत्र मजरो च तथोदिता ॥५३॥
पत्राकृतिर्भङ्गिः पत्रभङ्गिः । "इतोऽक्त्यर्थात्" [२।४।३२] इति ड्याम् पत्रभङ्गी, तस्यां पत्रभङ्गयाम्-पत्रलेखायाम् । स्त्रीणां कपोल-स्तनमण्डलादिषु कस्तूरिकादिभिः पत्ररचनायामित्यर्थः । पत्रात् पत्रशब्दादग्रे वल्लरी इति प्रयोज्यते तत एवं, पत्राकृतिवल्लरी पत्रवल्लरी । पत्राकृतिर्मञ्जरी पत्रमञ्जरी । पण्डितैः उदिताकथिता ॥ ५३ ॥
कर्णान्दूरपि कर्णान्दुः।
कर्णयोः अन्द्यते बध्यते कर्णान्दूः । “कृषिचमितनिधन्यन्दि." [उ. ८२९] इति ऊः प्रत्ययः । इति वैजयन्तीकारः । “भृमृतृत्सरि०" [उ. ७१६] इति बहुवचनाद 'उ'प्रत्यये कर्णान्दुः । 'उत्क्षिप्तिका कर्णलालिका इत्यन्ये । यदाहुः'--
__ "उत्क्षिप्तिकायां कर्णान्दुः कर्णपाश्यामपि स्त्रियाम्"। [ ] इति । द्वयोरपि यथा-"सुवर्णकर्णान्दुविलोलकर्णा ।" [ ]
परिहार्योंऽपि कङ्कणम् । परि-सर्वतोभावे हियते परिहार्यः । "ऋवर्णव्यञ्जनाद् ध्यण" [५।१।१७] इति ध्यण् । कङ्कते याति हस्तम् कङ्कणम् । “तकृशपभ्वश्रुरुहिरु०" [उ.१८७] इति भणः । प्रतिसरः ।
किङ्कणी कङ्कणी तुल्ये।
कङ्कते याति कटीम् किङ्कणिः कङ्कणिश्च । “कङ्केरिच्चास्य वा” [उ. ६३९] इति अणिः, धातोः अकारस्य च इकारो वा भवति । ड्याम् किङ्कणी कङ्कणी, किङ्किणीका इत्यपि ।
आच्छादाच्छादने समे ॥ ५४॥ आच्छाद्यतेऽनेन आच्छादः । “युवर्ण०" [५।३।२८] इति अल् । आच्छादनम् । “करणाऽऽधारे" [५।३।१२९] अनट् इति अनट् । वस्त्रनाम्नी ॥५४॥
कूर्पासोऽप्यङ्गिका । १. जे. प्रतौ. 'उत्क्षिप्तिका कर्णलालिकेत्यन्ये । यदाहुः' इति पाठो नास्ति । २. जे. 'करणी' नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org