________________
વર
श्रीश्रीवल्लभगणिविनिर्मिता
“अगुरु प्रवरलोहं कृमिजग्धमनार्जकम् " । इति न गुरुः अगुरुः । पुंक्लीबलिङ्गस्तत्र । अथ वाल्हिकम् ।
संङ्कोचं पिशुनं वर्ण्यमसृक्संज्ञं च कुङ्कुमे ॥ ५१ ॥
" वर्हि वल्हि प्राधान्ये" वल्हते वल्हिः । “पदिपठि०" [उ.६०७] इति इः । बाहुलकाद् दीर्घे, वाल्हयः । स्वार्थिके के, वाल्हिकाः देशस्तेषु भवं वाह्निकम् । "कोपान्त्यात् ०" [६।३।५६ ] इति अण् ।
" कुच सम्पर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु" संकोचति कुटिलीभवति संङ्कोचम् | "अच्” [ ५।१।४९] इत्यच् । “पिशंत् अवयवेऽपि " पिशति पिशुनम् । "पिशिमिथिक्षुधिभ्यः कित्" [ उ. २९० ] इति किद उनः । वर्ण्यते वर्ण्यम् । “य एच्चाऽऽतः” [५।१।२८] इति यः । असृक्संज्ञाऽस्य असृक्संज्ञम् । “कुकि आदाने " कुक्यते कुङ्कुमम्। “कुन्दुमलिन्दुमकुङ्कुमविद्रुमपट्टुमादयः” [उ. ३५२] इति 'कुम' - प्रत्ययान्तो निपात्यते । क्लीबलिङ्गोऽयम् । वाचस्पतिस्तु "निदाघेऽपि कुङ्कुमः सुखः स्यात् " इति पुंस्याह । तत्र अग्निशिखम्, कश्मीरजम्, हरिचन्दनम् असृक् च ॥५१॥ जापके कालानुसार्यम् ।
जापकाद्रिभवत्वात् जापकम् कालीयकम्, तत्र कालायाम् भूमौ अनुसार्यते कालानुसार्यम् ।
यावनोऽपि च सिल्हके । यवनदेशे भवो यावनः । “भवे” [६।३।१२३ ] इति अण् । “सिलत् उञ्छे" दन्त्यादिः । सिलति सिल्हः । " बहुलम् " [५/११२] इति हः । सिलम् जहाति इति वा । " क्वचित्" [ ५/१/१७१] इति डः, के, सिल्हकम्, तत्र ।
मकुटोsपि च कोटीरे ।
"मकुङ् मण्डने" मङ्कयते मण्ड्यते शिरोऽनेन मकुटम् । " मर्मकमुकौ च" [उ. १५४ ] इति उटः, मङ्केश्च मक् इत्यादेशः । " कुटत् कौटिल्ये" कुटति कोटीरम् । “कृशृपृपूग्मञ्जिकुटि ० " [ उ. ४१८] इति ईरः । बाहुलकाद् गुणः, तत्र तिरी - टम् अपि ।
चित्रकं च विशेषके ॥ ५२ ॥
चित्र्यते शिरोऽनेन चित्रम्, के, चित्रकम् । क्लोबलिङ्गः । विशिनष्टि ललाटम् - विशेषकम् । पुंक्लीबलिङ्गः | तिलकस्तत्र ॥ ५२ ॥
Jain Education International
वतंसोऽप्यवतंसे स्यात् ।
"भूष तसु अलङ्कारे” अवतंस्यतेऽनेन अवतंसः ।
For Private & Personal Use Only
www.jainelibrary.org