________________
हैमनाममालाशिलोञ्छदीपिका "शिघु माघ्राणे" तालव्यादिः । शिध्यते शिवाणकः। “धालूशिशिभ्यः" [उ.७०] इति आणकः प्रत्ययः । शिवते शिवाणः । "बहुलम्" [५।१।२] इति आणः । सिंहाणम् अपि । नासिकामलनाम्नी ।
मृणीका सृणिकाऽपि च ॥४९॥ सरति गच्छति मुखात् सृणीका । "सृणीकाऽस्तीक०" [उ.५०] इति इके निपात्यते । “कुशिकहृदिकमक्षिक." [उ.४५] इति इकप्रत्यये निपातनात् सृणिका लाला तन्नाम्नी ॥४९॥
शान्तः पान्तश्च विड गूथेऽशुचि
"विशत् प्रवेशने" विशति पक्वाशये विद । “विष्लंकी व्याप्तौ" वेवेष्टि अन्त्रम् विट् । शान्तः शकारान्तः, षान्तः षकारान्तश्च ।
शान्तपक्षे रूपाण्येवम्-विट्, विड, विशौ, विशः । षान्तपक्षे यथा-विद, विड्, विषौ, विषः । स्त्रीलिङ्गः । वैजयन्तीकारस्तु-"उच्चारो विटू नना' [ ]इति" क्लीबेप्याह । अमरस्तु-"विष्ठाविषौ स्त्रियाम्" [२१६१६८] इति मूर्धन्यम् षम् आह । गूयते उत्सृज्यते गूथम् । पुक्लीबलिङ्गः । “पथयूथ." [ उ. २३१ ] इति थे निपात्यते । तत्र । न शुचि अशुचि । क्लीबलिङ्गः। आरालम् अपि । दीर्घादिरयम् ।
वेशोऽपि वेषवत् । "विशंत् प्रवेशे" विशति चेतोऽत्र वेशः, तालव्यान्तः । “पदरुज." [५॥३॥ १६] इति घञ् । वेवेष्टि अङ्गम् वेषः । वस्त्रालङ्कारमाल्यप्रसाधनैरङ्गशोभा । यथा वेषशब्दो नेपथ्ये वर्तेते तथा वेशोऽपि ।
उत्सादनोच्छादनौ च
"षद्ल विशरणगत्यवसादनेषु" उत्साद्यते मलोऽनेन उत्सादनम्, उद्वर्तनम् । "छदण् अपवारणे" उच्छाद्यतेऽनेन उच्छादनम् । उभयत्र "अनट" [५।३।१२४] इति अनट् ।
आप्लवाप्लावौ तथा समौ ॥ ५० ॥ ___ "प्लुङ् गतौ" आप्लवनम् आप्लवः आप्लावः । 'आङो रूप्लोः" [५।३।४९] इति वा अल् प्रत्ययः । स्नाननाम्नी ॥५०॥
वंशकं कृमिजग्धं चागुरौ स्यात् ।
वंशप्रतिकृति वंशकम् इति अमरटीका । "तस्य तुल्ये कः संज्ञाप्रतिकृत्योः" [७१।१०८] इति कः । कृमिभिर्जग्धम् कृमिजग्धम् । यदाहुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org