SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता पुंक्लीबलिङ्गस्तत्र । "तृकशप०" [उ. १८७ ] इत्यादिना अणः प्रत्ययः । पद् वापि दन्तोऽयम् । कीकसं हड्डुमित्यपि । कीति कसति कीकसम् । ककन्ते अत्र श्वान इति वा । “फनस." [उ.५७३] इति असे निपात्यते । “हड् सौत्रो धातुः" हडति हडम् “कुगुहुनीकुणी०" [उ. १७० ] इत्यादिशब्दात् किद् डः । यदाह वैजयन्ती _ “अथास्थिकीकसं हड्डम्" [ ] इति । देश्याम् अपि । कपालं शकलमपि "कपिः सौत्रः" कप्यते कपालम् । पुंक्लीबलिङ्गः । "ऋकृमृ." [उ.४७५] इति आलः । कम् पालयति वा। तच्च मूर्नोऽ स्थि, घटादिखण्डेऽप्युपचारात् । "शक्लंद शक्तौ” शक्नोति शकलम् । "मृदिकन्दिकुण्डिमण्डिमङ्गिपष्टिपाटि शकि." [उ. ४६५] इति अलः । पृष्ठास्थनि कशारुका ॥४८॥ पृष्ठस्याऽस्थि पृष्ठास्थि, तत्र । "कश् शब्दे" तालव्यान्तः । सौत्रोऽयमिति एके। कश्यते कशारुः । “कृपिक्षुधिपीकुणिभ्यः कित्" [उ.८१५] इति बहुवचनाद् आरुः । के, कशारुका । स्त्रीक्लीबलिङ्गः ॥४८॥ मज्जायामस्थितेज़ोऽपि मज्यन्तेऽनया अस्थीनि इति मज्जा । भिदादित्वाद् अङ्, "सस्य शषौ" ११३॥६१] इति "टुमस्जीत् शुद्धौ" इत्यस्य धातोः सस्य शे, "तृतीयस्तृतीय०" १३।४९]इति शकारस्य जे मज्जा इति रूपसिद्धिः' । स्त्रीलिङ्गः । तस्याम् । अस्थान तेजोऽस्य अस्थितेजः । मज्जति अस्थनि मज्जा इत्यपि । “उक्षितक्षि०" [उ.९००] इति अन् । पुंसि अयम् । वाचस्पतिस्तु-“अथ मजा द्वयोः"] इति एनं स्त्रियामप्याह । नाडीषु नाडिनाटिकाः । . नडस्येव एताः नाड्यः शौषिर्यात् । नडे: सौत्रस्य वा घञ्प्रत्ययस्तासु । "नडिः" सौत्रः । नडन्ति नाडयः । “कमिवमिजमि०" [उ. ६१८] इति बहुवचनात् णित् इः । "नटण अवस्यन्दने" घञि नाटयः, के, नाटिकाः । नाडय एव नाडिका इति एके पेटुः । शिवाणकोऽपि शिकाणः १. जे. रूपसिद्धः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy