________________
हैमनाममालाशिलोञ्छदीपिका
३१
सृक्विणी । “प्रान्तौ ओष्ठस्य सृक्विणी" [ २२६।९१ ] इति अमरः । क्लीबलिङ्गः । ओष्ठपर्यन्तनाम्नी ।
दाटिका द्रादिकाऽपि स्यात्
दाढप्रतिकृतिर्दादिका । द्रादाप्रतिकृतिर्द्रादिका । " तस्य तुल्ये कः संज्ञाप्रतिकृत्योः " [ ७|१|१०८ ] इत्युभयत्र कः ।
कपोणिस्तु कफोणिवत् ॥ ४६ ॥ [ कीकं ] फणति - गच्छति कपोणिः कफोणिश्च । उभावपि पृषोदरादित्वात् साधू । 'वत्' अर्थः एवम्, यथा कफोणिशब्दः कूर्परवाची तथा कपोणिरपीति ॥ ४६ ॥ कूर्परे कुर्परः
46
कृपौड् सामर्थ्ये" कल्पते कूर्परः । “कुरत् शब्दे" कुरति कूर्परः । उभावपि "जठरक्रकर०" [ उ. ४०३ ] इति अरे साधू । तस्मिन् कूर्परे भुजामध्ये । सिंहतलः संहतकोऽपि च । "तलणू प्रतिष्ठायाम्" णिचोऽनित्यत्वाद् अचि तलति तलः, सिंहस्य इव तलः सिंहतलः, सिंहो हि. मिलिताभ्यां चपेटाभ्यां हन्ति । संहतम् - संघ लातीति संहतलः संहतलाख्यः । चलुकोऽपि चलुः
चलति चलुः। पुंल्लिङ्गः । " भृमृतृ०" [ उ. ७१६ ] इति बहुवचनाद् उः "स्वार्थिके के प्रत्यये चलुकः । प्रसृतद्रवाधारः ।
मुष्के स्यादाण्डः पेलकोऽपि च ॥ ४७ ॥ अति शब्दायते अत्राऽऽहतः प्राणी आण्डः । " कण्यणिखनिभ्यो णिद्वा" [ उ. १६९ ] इति वा णित् डः प्रत्ययः । पेलति ऊर्ध्वम् गच्छति भयेनेति पेलम् । स्वार्थिके के, पेलकः । मुष्णाति शुक्रम् मुष्कः । पुंक्लीबलिङ्गः । “विचिपुषि० " [ उ. २२] इति कित् कः । तत्र । स्याद् भवेत् ॥ ४७ ॥
पत्पादङ्घ्रिश्र चरणे
“पदिंच् गतौ” पद्यते पत् । " कुत्सम्पदादित्वात् क्विप्" [ ५|३|११४ ] | यदाह व्याडि:- 'पत्पादोंऽह्निश्चरणोऽस्त्री' [ ] इति पादयति पाद । णौ क्विप् । 'द' अन्तोऽयम् पुंसि । यदाह दुर्ग:पाद समानार्थः पादप्यस्ति ।
'अघुङ् गत्याक्षेपे” अङ्घते अनेनेति अङ्घ्रिः । पुंल्लिङ्गः । तङ्कवङ्किअङ्कि - मङ्किअंहि०" [उ. ६९२ ] इत्यनेन अरsपि रिः प्रत्ययः । चरन्ति अनेन चरणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org