SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीश्रीवल्लभगणिविनिर्मिता “समानोदर्यसोदर्यसगर्थ्यसहजाः समाः” । [अ.२।६।३४] इति । ___ अग्रजवदग्रिमः॥४४॥ अग्रे जातो अग्रजः । "क्वचित् " [५।१।१७१ ] इति डः । अग्रे भवो अग्रिमः । “पश्चादाद्यन्ताऽग्रादिमः” [ ६।३।७५ ] इति इमः प्रत्ययः ॥४४॥ शण्ठः शण्डः पण्डुरपि क्लीवः शाम्यति शण्ठः । “शमेलृक् च वा" [उ. १६५] इति ठः प्रत्ययः । शाम्यति शण्ढः । “शमिषणिभ्यां ढः" [उ. १७९ ] इति ढः । “पडुङ् गतौ" पण्डते पण्डुः । “पृकाहृषिधृषीषिकुहि०" [उ. १२९] इत्यादिशब्दात् कित् उः। “क्लीबृङ् अधाये" अचि, क्लीबते क्लीबो नपुंसकस्तन्नामानि । माता जनित्र्यपि । मान्यते माता । “मानिभ्राजेर्लक् च" [ उ. ८५९ ] इति तृः । जायतेऽस्यां जनित्री । “बन्धिवहि." [ उ. ४५९] इत्यादिशब्दाद् इत्रः । यद् वा, जनयति जनित्री । शतृप्रत्ययः । "या जनित्री त्रिलोक्या" इत्यन्त वितण्यर्थत्वात् । चिहुरा अपि केशाः स्युः चकन्ते चिहुराः । “श्वशुरकुकुन्दुर०" [ उ. ४२६ ] इति 'उर'प्रत्ययान्तो निपात्यते । यदाह हुग्रः ( ? दुर्गः) "कुन्तला मूर्द्धजास्त्वस्राश्चिकुराश्चिहुरा" इति । [ ] क्लिश्यते एभिः केशाः । "क्लिशः के च" [ उ. ५३० ] इति शः । शिरोजेः, अङ्गजः शिरोरुहः च । ___कर्णः शब्दग्रहोऽपि च ॥ ४५ ॥ कर्ण्यते आकर्ण्यते अनेन कर्णः । किरति अनेन वा । "इणुर्विशावेणि." [उ. १८२ ] इति णः प्रत्ययः । शब्दो गृह्यते अनेन शब्दग्रहः । शब्दम् गृह्णाति वा अजन्तः ॥ ४५ ॥ नेत्रं विलोचनमपि नीयते दृश्यम् अनेनेति नेत्रम् । पुंक्लीबः । “नीदा०" [५।२।८८] इति त्रट् । "लोचड् दर्शने" विशेषेण लोच्यते अनेन विलोचनम् । “अनट् [ ५।३।१२४ ] इति अनट् । प्यात्वम् पेत्वम् कणीचिः, अक्षा, तारकम् चापि । मृक्वणी सृक्विणी अपि । सृजतो लालां सृक्वणी । “सृजेः स्रज् सृको च" [उ. ९०७ ] इति क्वनिप्, धातोः सृग् इत्यादेशश्च । “छविछिवि०" [उ. ७०६] इति 'वि' प्रत्यये निपातनात १. जे. प्रतौ-शिरोजः मास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy