________________
हैमनाममालाशिलोञ्छदीपिका वा, "दिधि धैर्यम्" इन्द्रियदौर्बल्यात् स्यति त्यजति इति दिधिषूः । “अन्दूहन्भूजम्बू" [पा. उ. ९६] इति पाणिनीयोणादिसूत्रेण निपातनात् साधुः । पुनर्भूत्रीनाम्नी ।
जीवत्पत्नी जीवत्पतिः समे ॥४२॥ जीवन पतिरस्याः जीवत्पत्नी जीवत्पतिश्च । “पत्युनः" [२।४।४८] इत्यनेन पत्यन्ताद् बहुव्रीहेः स्त्रियां ङीर्वा भवति । तत्सन्नियोगेऽन्तस्य नकारादेशश्च ॥४२॥
तुल्ये अवीरानिर्वीरे
न विद्यते वीरौ-पतिपुत्रौ अस्याः अवीरा । निर्गतौ वीरौ- पतिपुत्रौ अस्याः निर्वीरा । निष्पतिसुता स्त्री, तन्नाम्नी । तुल्ये-समाने ।
श्रवणा-श्रमणे तथा । शृणोति श्रवणा । “तकश्रृपृवश्रुरुरुहि." [उ.१८७]इति अणः । श्राम्यति तपसा श्रमणा । “नन्द्यादिभ्योऽनः" [५।११५२] इति अनः ।
रण्डापि विधवा
रमते रण्डा । “पञ्चमाडः' [उ. १६८] इति डः । विगतो धवो भर्ताऽस्या विधवा ।
पुष्पवती स्यात्पुष्पिताऽपि च ॥४॥ पुष्पम् विद्यतेऽस्याः मतौ पुष्पवती । “पुष्पम् जातमस्यां पुष्पिता" इति माला। तारकादित्वाद् 'इतः ॥४३॥
पुष्पे कुसुममप्युक्तम्
"पुष्पच् विकसने" देवादिकः'। पुष्यति पुष्पम् । “अच्" [५।११४९] इत्यच् । तत्र "कुसच् श्लेषे" कुस्यति कुसुमम् । "उद्वटिकुल्यलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः" [उ.३५१] इति किद् उमः ।
पशुधर्मोऽपि मोहने । पशूनाम् अविवेकिनाम् धर्मः पशुधर्मः । मुह्यन्ति इन्द्रियाणि अत्र मोहनमसम्भोगः, तत्र । “अनद" [५।३।१२४] इति अनट् ।
सहोदरे सगर्योऽपि स्यात्
सह तुल्यम् उदरम् अस्य सहोदरः, तत्र । समाने गर्भे भवः सगर्म्यः । "भवे" [६।३।१२३] इति यः प्रत्ययः । “सगर्भसयूथसनुताद् यत्" [पा.४।४। ११४] पाणिनीयव्याकरणसूत्रेण 'यत्' प्रत्यये वा साधुः । छान्दसोऽपि लोकेऽभिधानात् । यदाह अमर:
१. प्रा. दिवादिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org