________________
श्रीश्रीवल्लभगणिविनिर्मिता
स्कन्धावारेऽपि शिबिरो मतः । चतुरङ्गसैन्यस्य प्रधानभूतत्वात् राजा स्कन्धस्तम् आवृणोति स्कन्धावारः, तत्र । कर्मणः अण् । “शव गतौ" तालव्यादिः । शवति चतुरङ्गसैन्यम् इति शिबिरः । "शवशरिच्चातः" [उ. ४१३ ] इति इरः, धातोः अकारस्य च इकारादेशः ।
जयन्त्यपि वैजयन्त्यां पटाकाऽपि प्रकीर्तिता ॥ ६४ ॥ जयति जयन्ती। "तजीभूवदि०" [उ. २२१ ] इति अन्तः । विजयन्तस्य इयम् वैजयन्ती । "तस्येदम्" [६।३।१६० ] इति अण् । “अणजेये." [२।४।२०] इति ङीः । तस्याम् । “पट गतौ” पटति पटाका । "शलिबलिपतिवृतिनभिपटि." [उ. ३४ ] इति आकः । प्रकीर्तिता-कथिता । धूका, वाजिः च ॥६४॥
ध्वजः पताकादण्डोऽपि । ध्वजति धूयते ध्वजः । पताकायाः दण्डः पताकादण्डः तन्नाम ।
झम्पानं याप्ययानवत् । "चमूछमूजमूझमूजिमू अदने" झमति अत्ति इव झम्पानम् । "मुमुचानयुयुधान०" [ उ. २७८] इति आने निपात्यते । याप्यस्य अशक्तस्य यानम्-युग्याख्यम् याप्ययानम् । यथा 'याप्ययान'शब्दः शिबिकाबाची तथाऽयमपीति गौडः।
सादी सव्येष्ठोऽपि सूते ।
"षद्ल विशरणगत्यवसादनेषु" सीदतीति सादी। ग्रहादित्वाद् णिन् । सादिः अपि । सव्ये तिष्ठतीति सव्येष्ठः । “स्थापास्नात्रः कः" [५।१।१४२] इति कः । भीरुष्ठानादित्वात् षत्वम्, सप्तम्यलुप् च । सुनोति सूतः । “सुसितनि०" [ उ. २०३ ] इति तो दीर्घत्वं च । सुवतीति वा । तत्र ।
कवचितोऽपि वर्मिते ॥ ६५ ॥ कवचम् जातम् अस्य कवचितः । वर्म जातम् अस्य वर्मितः । उभयत्र तारकादित्वाद् इतः, तत्र ॥६५॥
कवचे दंशनं त्वक्त्रं तनुत्राणमपि स्मृतम् ।
"कुङ् शब्दे" कवते कवचम् । पुंक्लीबलिङ्गः । “कल्यविमदिमणिकुकणिकटिकृभ्योऽचः" [उ. ११४ ] इति अचः । दश्यते-बध्यते देहे दंशनम् । “अनद" [५।३।१२४ ] इति अनट् । त्वचम् त्रायते त्वक्त्रम् । “क्वचित्" [५।१।१७१] इति डः। तनोः-शरीरस्य त्राणम्-रक्षणम् तनुत्राणम् । स्मृतम्-उक्तम् । अरित्रम् इत्यपि ।
अधियाङ्गं धियाङ्गं चाधिकाङ्गवदुदाहृतम् ॥ ६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org