SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ हमनाममालाशिलोञ्छदीपिका २५ स्युनैमित्तिकनैमित्तमौहर्ता गणके निमित्तम् वेत्ति नैमित्तिकः । “न्यायादेः०" [६।२।११८] इति इकण् । निमित्तम्' मुहूर्तम् च वेत्ति नैमित्तः मौहूर्तः । “तद्वेत्त्यधीते" [६।२।११७] इत्यनेन उभयत्र 'अण' प्रत्ययः । गणयति गणकः ज्योतिषिकः, तत्र ।। लिपौ । लिखिताऽपि लिप्यते पत्रम् अनयेति लिपिः । स्त्रीलिङ्गः । “नाम्युपान्त्य०" [उ.६०९] इति किः । तत्र । लिख्यते पत्रम् अनयेति लिखिता । "क्रुशिपिशिपृषि०" [उ.२१२] इत्यादिबहुवचनात् किद् 'इतः' । क्तप्रत्ययो वा । लिखिरपि । __ मषी मेला मषति हिनस्ति औज्ज्वल्यम् मषिः । “पदिपठिपचि०" [उ.६०७] इति 'इ:' ड्याम्, मषी । मेल्यते अनया मेलनम् वा मेला । “भीषिभूषिचिन्तिपूजि." [५।३।१०९] इति बहुवचनाद् अङ् । यद् गौडः “मेला स्त्री मेलके मशौ, पत्राञ्जनमपि" । [ "मसिः पत्राञ्जनं मेला" [ ] इति हारावली । प्रस्तावात् मेलानन्दा मसिमणिः इति मषीभाजननाम्नी अपि ज्ञेये। "[वार्दलोऽपि । यदाह"क्लीबं दुर्दिवसे मेलानन्दायामपि वार्दलः" [ ] इति ।" कुलिके कुलकोऽपि च ॥३६॥ कुलम् अस्त्यस्य कुलिकः । “अतोऽनेकस्वरात्" [७२।६] इति इकः । तत्र । “कुल बन्धुसंस्त्यानयोः" कोलति कुलकः । “ध्रुधून्दिरुचितिलिपुलिकुलि." [उ.२९] इति किद् अकःः । कुलम् कायतीति वा । "क्वचित्" [५।१।१७१] इति डः । इति क्षीरस्वामी । कुलश्रेष्ठिनाम्नी ॥३६॥ अष्टापदे बुधैः शारिफलकोऽपि निगधते । अष्टौ पदानि अत्र अष्टापदः । “नाम्नि" [३।२।७५] इति दीर्घत्वम् । तत्र । शारयः फलन्ति अत्र शारिफलम् , खेलनाधारश्चतुरङ्गफलकादिः । शारीणाम् फलम् इति १ जे. मुहूर्तः । २-२ च वेत्ति नैमित्तः मौहूर्तः । जे. प्रतौ नास्ति पाठः । ३-३ [ ] चिहान्तर्गतपाठो मास्ति प्रा, प्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy