________________
२४
श्रीश्रीवल्लभगणिविनिर्मिता
गुदकीलोऽपि चार्थसि । गुदस्य कीलः गुदकील इव गुदकीलः, गुदम् कीलति वा । इयर्ति पीडाम् अनेन अर्शः । क्लीबलिङ्गः । “अर्तेरुराग च" [उ.९६७] इति 'अस्' प्रत्ययः अर्श इति तालव्यशकारान्तादेशः । गुदतुद् अपि ।
मेहः प्रमेहवत् मेहयति मूत्रयति अनेन मेहः । प्रमेहयति प्रमेहः बहुमूत्रता ।
_ आयुर्वेदिकोऽपि चिकित्सके ॥३४॥ “विदक् ज्ञाने" आयुर्विद्यते अनेन आयुर्वेदः-शास्त्रम् । “व्यञ्जनाद् घञ्" [५।३।१३२] इति घञ् । आयुर्वेदं वेत्ति अधीते वा आयुर्वेदिकः । "न्यायादेः" [६।२।११८] इति इकण् । यद् वा, आयुर्वेदः अस्याऽस्तीति आयुर्वेदी । 'आयुर्वेत्ति इत्येवंशीलो वा आयुर्वेदी' । स्वार्थिके के, आयुर्वेदिकः । चिकित्सति चिकित्सको वैद्यस्तत्र । जैवातृक-भिषज-भिष्णजा अपि ॥३४॥
आयुष्मानपि दीर्घायुः कथ्यते
आयुर्विद्यते अस्य आयुष्मान् । दीर्घम् आयुः अस्य दीर्घायुः । कथ्यते-उच्यते । जीवन्त-जीवरौ अपि ।
ऽथ परीक्षकः। स्यादाक्षपाटलिकोऽपि
परीक्षते परीक्षकः । मठादौ दानार्थ ब्राह्मणपरीक्षिता । अक्षपटलैः व्यवहारसमहैश्चरतीति आक्षपाटलिकः । “चरति" [६।४।११] इति इकण् । अक्षपटलैः दीव्यतीति वा। "तेन जितजयद्दीव्यत्स्वनत्सु" [६।४।२] इति दीव्यति अर्थे इकण् प्रत्ययः । अनुशतिकादित्वात् उभयपदवृद्धिः ।
पारिषद्योऽपि सभ्यवत् ॥३५॥ परिषदि साधुः पारिषधः । “पर्षदो ण्यणौ" [७।१।१८] इति ण्यः । पारिषदपार्षदौ अपि । परिषदम् समवैति पारिषद्यः । "पैर्षदो ण्यः" [६।४।४७] इति परिषद्शब्दाद् द्वितीयान्तात् समवैति समवेतेऽर्थे ण्यः प्रत्ययः इति वा । सभायां साधुः सभ्यः । “तत्र साधौ" [७।१।१५] इति यः । यथा सभ्यशब्दः सदस्ये वर्तते तथा पारिषद्योऽपीति ॥३५॥
१-१ जे. प्रतौ पाठो नास्ति । २ एतत् सूत्रम् 'परिषत्' शब्दे कथं प्रवर्तते ? इति विचारणीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org