________________
हमनाममालाशिलोञ्छदीपिका
"विद्यादधोगतं न्युजं न्युब्जकुब्ज उदाहृतः" । [ ] कूयते कुब्जः वक्रानताङ्गः । “कुवः कुब्कुनौ च" ( उ. १२९ ) इति 'जक्' प्रत्ययः । कुत्सित उब्ज इति वा । वृषोदरादित्वात् साधुः । तत्र ।।
खलतोऽप्यन्द्रलुप्तिके ॥३२॥ "खल सञ्चये च, चकाराच्चलने" खलन्ति केशाः अस्मादिति खलतः । भीमादित्वाद् अपादाने "दृपृभृमृशीयजिखलिवलि०" उ.२०७] इति 'अतः' प्रत्ययः । इन्द्रलुप्तम् केशघ्नम् तेन चरति ऐन्द्रलुप्तिकः । “चरति" [ ६।४।११] इति इकण् । । तत्र । खल्वाटनाम्नी ॥३२॥
पामरोऽपि कच्छुरः
पामा अस्त्यस्य पामरः । “मध्वादिभ्यो र" [७।२।२६] इति मत्वर्थे रः । पाति कण्डूम् इति वा । "जठरक्रकर०" [उ. ४०३] इति अरे निपात्यते । कच्छूः अस्त्यस्य कच्छुरः । “कच्छ्वा डुरः" [७।२।३९।] ति डुरः । पामवान् कच्छूमान् च ।
अतीसारक्यप्यतिसारकी। अतीसारो विद्यतेऽस्य अतीसारकी । एकदेशविकृतस्याऽनन्यत्वाद् इति अतिसारकी । "घञ्युपसर्गस्य बहुलम्" [३।२।८६] इति वा दीर्घः । उभयत्र “वाताऽतीसारपिशाचात् कश्चान्तः” [७।२।६१] इति 'इन्' कश्चान्तो भवति ।
कण्डूतिरपि खजूं: स्यात्
"कण्डूञ् गात्रकर्षणे" कण्डूय्यते गात्रम् अनयेति कण्डूतिः । “स्त्रियां तिः" [५।३।९१] इति क्तिः । वर्जति व्यथते खजूः । स्त्रीलिङ्गः। “कृषिचमि०" [उ.८२९] इति ऊः ।
विस्फोटः पिटके स्मृतः ॥३३॥ "स्फट स्फुट विशरणे" विस्फोटनम् विस्फोटति पादोऽनेन वा विस्फोटः । "व्यञ्जनाद् घञ् [५।३।१३२] इति घम् । पेटति संश्लिष्यति पिटकः । त्रिलिङ्गः । 'छिदिभिदिपिटेर्वा" [उ. ३०] इति किद् 'अकः' । क्षुद्रस्फोटकनाम्नी ॥३३॥
कोठो मण्डलकमपि
"कुठिः सौत्रः" कोठयति अङ्गं कोठः, कुण्ठयति अङ्गम् इति वा । “पष्टैधिठादयः" [उ.१६६] इति निपात्यते । मण्डलाकृतित्वाद् मण्डलम् । स्वार्थिक के, मण्डलकम् । मण्डलप्रतिकृतिः इति वा मण्डलकम् , तदाकारसदृशत्वात् । “तस्य तुल्ये का संज्ञाप्रतिकृत्योः " [७।१।१०८] इति कः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org