________________
श्रीश्रीवल्लभगणिविनिर्मिता
[७३।१०५] इति 'अट्'समासान्तः । मनसो गौरिति वा, दूरगामित्वात् । उभावपि स्याताम्-भवेताम् । मन एव रथो दूरगामित्वात् यत्र स मनोरथः, तत्र ॥३०॥
कामुके कमनोऽपि स्यात्
कमनशीलः कामुकः । “शकमगमहनवृषभूस्थ उकण्" [५।२।४०] इति उकण् । तत्र । कामयते कमनः । “कमूङ् कान्ती" "रम्यादिभ्यः कर्तरि" [५।३।१२६] इति अनट् । स्यात्-भवेत् ।
आक्षारितोऽपि दूषिते । आ-समन्तात् क्षार्यते स्वरूपात् चाल्यते स्म इति आक्षारितः । अलीकोत्पन्नपातकस्य व्यपदेशः । दूष्यते स्म दूषितः । "मैथुनम् प्रति" इति एके । तत्र ।
संशयालुः सांशयिके
संशयनशीलः संशयालुः । "शीशद्धानिद्रातन्द्रादयि०" [५।२।३७] इति आलुः । संशयं प्राप्तः सांशयिकः । “संशयं प्राप्ते ज्ञेये" [६।४।९३] इति इकण् । तत्र।
जागरिताऽपि जागरी ॥३१॥ जागर्तीत्येवंशीलो जागरिता । "तृन् शीलधर्मसाधुषु" [५।२।२७) इति तृन् । जागरो जागरणम् अस्त्यस्य जागरी-जागरूकः ॥३१॥
पूजितोऽपचायितोऽपि
पूज्यते पूजितः । अपचाय्यते अपचायितः । “अपचितः" [१।४।७७] इति ते निपात्यते । चिनोतेहि पूजार्थो नास्तीतोदं निपातनात् । अर्कितोऽपि ।
तुन्दिभोदरिकावपि । तुन्दिलः
तुन्दिः उदरम् अस्यास्ति तुन्दिभः । इति अमरः । “तुन्दिवलिवटेर्भः" [ पा. ४।२।१३९] इति पाणिनीयसूत्रेण भः प्रत्ययः । तुन्दवान् अपि । उदरम् अस्यास्ति उदरिकः । "व्रीह्यर्थतुन्दादेरिलश्च" [ ७।२९] इति इकः । उदरवान् अपि । तुन्दम् अस्यास्ति तुन्दिलः । "ब्राह्यर्थतुन्दादेरिलश्च" [७।२।९] इति इलः । बृहत्कुक्षिनामानि ।
न्युजोऽपि कुब्जे "उब्जत् आर्जवे नीतिक्षेपार्थे" न्युजति न्युजः । “अच्" [ ५।१।४९] इति अच् । न्युब्जनम् न्युजः । घञ् । न्युब्जेन पाणिगतेन भुग्नत्वेन योगाद् वा न्युजः पुमान् । यत् शाश्वतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org