SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ हैमनाममालाशिलोञ्छदीपिका "द्रप्सं सरम्" इति आदिदन्त्यं मालाकारः प्राह । "सरो दध्यमबाणयोः" [ ] इति च विश्वः । भागुरिस्तु-तालव्यादि शरं प्राह । यदाह दुर्ग:-"बाणद्रप्सौ शरों" इति । विजिपिलं च पिच्छिले । विजति चलति विजिपिलम् । “स्थण्डिलकपिल." [उ.४८४] इति इलान्तो निपात्यते । पिच्छा आचामोऽस्याऽस्ति पिच्छिलम् । "लोमपिच्छादेः शेलम्" [७ । २।२८] इति इलः । तत्र । व्योषे त्रिकटुकम् विशेषेण ओषति दहति व्योषम् , तत्र । त्रीणि कटूनि शुण्ठीमरिचपिप्पल्याख्यानि समाहृतानि त्रिकटु । स्वार्थिके के प्रत्यये त्रिकटुकम् । यदाह-- "महौषधं च मरिचं कणावैकीकृतं किल । व्यूषणं कथ्यते तज्ज्ञैत्रिकटु व्योषकं तथा" ॥ [ ] जग्धौ जमनं जवनं तथा ॥२९॥ अदनम् जग्धिः । “स्त्रियां क्तिः" [५ । ३ । ९१] इति क्तिः “यपि चाऽदो जग्" [४।४।१६] इति 'जग्ध्' आदेशः । तत्र । "चमू छमू जमू झमू जिमू अदने" "जम्यते जमनम् । “अनट्" [५।३।१२४] इति अनट् । “जु गतौ" सौत्रो धातुः । जूयते क्षुधया जवनम् । यद् दुर्ग: 'जवनं भोजनं क्वचित्" । [ चमनम् अपि ॥२९॥ __ आध्राणोऽपि भवेत् तृप्तः, ". तृप्तौ" आध्रायति स्म आध्राणः । “ऋहीघ्राध्रा०" [४।२।७६] इति क्तयोः तस्य वा नत्वम् । तृप्यति तृप्तः । “तृपौच प्रीतौ" वेट्त्वात् क्तयोर्नेट् । शौष्कलः पिशिताशिनि । शुष्कम् मांसम् लाति शुष्कलः, स एव शौष्कलः । प्रज्ञादित्वाद् अण् । पिशितम् मांसम् अश्नातीत्येवंशीलः पिशिताशी तस्मिन् पिशिताशिनि मांसभक्षके । मनोराज्यमनोगव्यावपि स्यातां मनोरथे ॥३०॥ मनसो राज्यं यत्र मनोराज्यम् । मनश्च तद् गौश्च मनोगवी । “विशेषणं विशेष्येणेकार्थ कर्मधारयश्च" [३।११९६] इति कर्मधारयः, ततो 'गोस्तत्पुरुषात्" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002650
Book TitleHaimanamamalasiloncha
Original Sutra AuthorJindevsuri
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy